Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1241
________________ हिंडग 1217- अभिधानराजेन्द्रः - भाग 7 हिंडग सुं' पृथग वसतिर्भवति। तथा यदि च ते वास्तव्या: साधवः 'सहू' समस्तितो 'वियरे' ति भिक्षामटित्वा प्राघूर्णकेभ्यः प्रयच्छन्ति। तिण्हं एकेण सम, मतहो अप्पणो अवडंतु। पच्छा इयरेण समं, आगमणविरेगु सो चेवः ||6|| (भा०) अथ तत्रत्रय आचार्या भवन्ति, द्वावागन्तुकौ एको वास्तव्य तदा 'एक्केण सम' तिएकेनागन्तुकाचार्यप्रव्रजितेन सह वास्तव्य: पर्यटति। तावद्यावद् 'भत्त' त्ति एकस्य प्राघूर्णकाचार्यस्य भक्तार्थो भवति-उदरपुरणमात्रमित्यर्थः, अत: 'अप्पणो अवढं तु' त्ति आत्माचार्यार्थ वाऽसौयास्तव्य: 'अवडंतु' अर्धध्रुवमानं श्रावककुलेभ्यो गृह्णाति। पच्छा इयरेण समं' ति पश्चादितरेण द्वितीयागन्तुकाचार्यप्रव्रजितेन समं पर्यटति। तत्रापि भक्तार्थो यावद्भवति प्राघूर्णकस्य तावत्पर्यटति, आत्मनश्वार्द्धध्रुवमात्रं गृह्णाति, एवं पूर्ण ध्रुवो भवति वास्तव्याचार्यस्य। 'आगमणं' ति एवं ते पर्यटित्वाऽऽत्मीयायां वसतौ आगमनं कुर्वन्ति। 'विरेगु सो चेव' त्ति स एव 'विरेगो' विभजनं श्रावककुलेषु, योऽसौ भिक्षामटद्भिः कृतः, न तु पुनर्वसतिकायाम् आगतानां भवतीति। 'असति वसहीऍ वीसुं, राइणिए वसहि भोयणगगम्म। असहू अपरिणया वा, ताये वीसुंसह वियरे।।१।' त्ति यो विधिरुक्त:, अयं च द्वितीयाद्याचार्येष्वप्यागतेषु द्रष्टव्य इति / एवं तावद्विहृतक्षेत्रेयत्र साधुषु तिष्ठत्सु यो विधि: स उक्तः // इदानीमविहृते क्षेत्रे साधुरहिते च यो विधिस्तत्प्रतिपादयन्नाहचेइअवंदनिमंतण, गुरूहिँ सदिट्ट जो वऽसंदिहो। निब्बंध जोगगहणं, निवेय नयणं गुरुसगासे ||100 / (भा०) एवं विहरन्त: कचिद्ग्रामादौ प्राप्ताः, तत्र च यदि सन्जी विद्यते ततश्चैत्यवन्दनार्थमाचार्यो व्रजति, ततश्च श्रावको गृहागतमाचार्य निमन्त्रयति, यथा-प्रायोग्यं गृहाणततश्च यो गुरुसंदिष्टः स गृह्णाति। 'जो वऽसंदिहो' त्ति यो त्वा असंदिष्टः-अनुक्त: स या गृह्णाति, श्रावकनिर्बन्धे सति। एतदुक्तं भवति-योऽसावाचार्येण संदिष्टः स यावन्नागच्छत्येव तावत्तेन | श्रावकेणान्य: सङ्घाटको दृष्टः, स च निर्बन्धग्रहणे कृते सति योग्यग्रहणंप्रायोग्योपादानं करोति। ततश्च 'निवेयणं' ति अन्येभ्य: सङ्घाटकेभ्यो निवेदयति, यथा यदुत मया श्रावकगृहे प्रायोग्यं गृहीतं न तत्र भवद्भिः प्रवेष्टव्यम्। ततश्च 'नयणं गुरुसगासे' त्ति तत्प्रायोग्यं गृहीत्वा गुरुसमीपं | नयति तत्क्षणादेव येनासावुपभक्त इति। इदानीं यदुक्तं प्राक् ‘अविहरिअविही इमो होति' त्ति तद्व्याख्यानयन्नाह - अविहरिअमसंदिट्ठो, चेइय पाहुडिअमेत्त गेण्हंति। पाउग्गपउरलंभे, नऽम्हे किं वा न भुजंति? ||101 // (भा०) अविहते ग्रामादौ असंदिष्टा एव सर्वे भिक्षार्थं प्रविष्टाः, तत्रच भिक्षामटन्त: श्रावकगृहे प्रविष्टाः, तत्रच 'चेइए' तिचैत्यानिचवन्दन्ते, तत्र च ‘पाहुडि अमेत्तं गिण्हन्ति' त्ति प्राभृतिकामात्रं यदि तत्र लभ्यते ततो गृह्णन्त्येव। अथाचार्यप्रायोग्यं लभ्यते प्रचुरं वा लभ्यते तत: ‘पाउग्गपउरलंभे सति' इदमुच्यते- 'णऽम्हे' त्ति न वयमाचार्यप्रायोग्यग्रहणे नियुक्ताः , किन्त्वन्ये / एवमुक्ते श्रावकोऽप्याह-'किं वा न भुंजंति' ति किं भवद्भिनीतं न भुञ्जते आचार्य:? एवं निर्बन्धे सति त एव गृह्णन्ति। कियत्पुनर्गृह्णन्तीत्यत आहगच्छस्स परीमाणं, नाउं घेत्तुं तओ निवेयंति। गुरुसंघाडग इयरे, लद्धं नेयं गुरुसमीवं // 102 // (भा०) गच्छस्य परिमाणं ज्ञात्वा गृह्णन्ति, गृहीत्वा च ततो निवेदयन्ति, कस्मै ? अत आह-गुरुसंघाटकाय, यदुताचार्यप्रायोग्यमन्येषां च गुडघृतादि लब्धं प्रधुरम्, 'इयरेवे' त्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्घाटकेभ्यो निवेदयति, 'मा वचह' ति मा व्रजत गृह्णीत गुरुयोग्यं, ततश्च लब्धमात्रमेव तद् गुरुसमीपं नेतव्यम्। तथा चाहएगागिसमुद्दिसगा, भुत्ता उपहेणएण दिलुतो। हिंडणदव्वविणासो, निद्धं महुरं च पुव्वं तु / / 103 / / (भा०) 'एगागिसमुद्दिसगा' ये न मण्डल्युपजीविनः पृथग्भुञ्जते, व्याध्याद्याक्रान्ताश्च; तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते, अत्र च 'पहेणएण दिलुतो' “काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं। तस्सेव अथक्कपणामियस्स गेण्हतया नत्थि ॥१॥"तथाऽऽनयनेऽयमपरो दोष:-येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविनाशो भवति, कथञ्चित्प्रमादात्पात्रकविनाशे सति क्षीरादि च विनश्यत्येव। तथा 'निद्धमहुराइंपुधि' यदुक्तमागमेतच कृतंनभवति। “सणि" ति दारंगये। इदानीं साधर्मिकदारं प्रतिपादयन्नाहम (भु) त्तहिअ आवस्सग, सोहेउं तो अइंति अवरण्हे / अन्मुट्ठाणं दंडा-इयाण गहणेकवयणेणं // 211 / / इदानीं ते साधर्मिकसमीपे प्रविशन्त: 'भ (भु) त्तहिअत्ति भुक्त्वा तथा 'आवस्सग साहेउ' त्ति आवश्यकं च कायिकोचारादि शोधयित्वाकृत्वेत्यर्थः, अतोऽपराह्नसमये आगच्छन्ति,येनवास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति / वास्तव्या अपि कुर्वन्ति, किमित्यत आह'अब्भुट्ठाणं' त्ति तेषसं प्रविशतामभ्युत्थानादि कुर्वन्ति, 'दंडादियाण गहणं' त्ति दण्डकादीनां ग्रहणं कुर्वन्ति, कथं ? 'एगवयणेणं' त्ति एकेनैव वचनेन उक्ता:, सन्त: पात्रकादीन् समर्पयन्ति, वास्तव्येनोक्ते मुशस्वेति ततश्च मुञ्चन्ति। अथ न मुञ्चत्येकवचने: ततोन गृह्यन्ते, मा भूत प्रमाद इति। खुड्डुलविगिट्टतेणा, उण्हं आवरण्हि तेण उपए वि। पक्खि तं मोत्तूणं, निक्खिवमुक्खित्तमोहेणं // 212 / / यदातुपुनस्तै: साधुभिरभिप्रेतोग्राम: सक्षुल्लकः, नतत्र भिक्षा भवति ततश्च प्रत्युषस्येवागच्छन्ति, "विगिट्ठ' त्ति विक्रष्टमध्वानंयत्र साधर्मिकास्ति-ष्ठन्ति तत: प्रत्यूषस्येवागच्छन्ति 'तेण' ति अथ तत: अपराह्ने आगच्छता स्तेन

Loading...

Page Navigation
1 ... 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276