Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1216
________________ हरिएस 1192 - अभिधानराजेन्द्रः - भाग 7 हरिएस प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'चरेज दन्त' त्ति वचनव्यत्ययाचरेयुर्याग प्रवर्तेरन्, भवन्त इति गम्यते। पठन्ति च–'चरन्ति दंत त्ति अत्र च यत एवं दान्ताश्चरन्त्यतो भवद्भिरप्येवं चरितव्यमिति भाव इति सूत्रार्थः। प्रथमप्रश्नप्रतिवचनमुक्तं, शेषप्रश्नप्रतिवचनमाहसुसंवुडा पंचर्हि संवरेहि, इह जीवियं अणवकंखमाणो। वोसट्टकाओ सुइचत्तदेहो, महाजयं जयई जन्नसिहूं // 12 // सुष्ठ संवृतः-स्थगितसमस्ताश्रवद्वारः सुसंवृतः कैः ? पञ्चभिः-पञ्चसंख्यैः संवरै-प्राणातिपातविरत्यादिव्रतैः 'इहे' त्यस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्रचजीवितं-प्रस्तावादसंयमजीवितम् अनवकासन्अनिच्छन्, यद्वाअपेर्गम्यमानत्वाञ्जीवितमपि-आयुरप्यास्तामन्यद्धनादि, अनवकाङ्क्षन् यत्र हि व्रतबाधा तत्रासौजीवितमपि न गणयति, अत एव व्युत्सृष्टोविविधैरुपायैर्विशेषेण वा परीषहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः-त्यक्तः कायःशरीरमनेनेति व्युत्सृष्टकायः, शुचिःअकलुषव्रतःस चासौ त्यक्तदेहश्च अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहः, महान् जयःकर्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञश्रेष्ठऽसौ महाजयस्तं, क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते यतिरिति गम्यते, ततो भवन्तोऽप्येवमेव यजन्तामिति भावः ‘तिवचनव्यत्ययने वा 'जइय' त्ति यजतां, कमित्याह-'जण्णसिटुं' प्राकृतत्वाच्छ्ठयज्ञ, श्रेष्ठवचनेन चैतद्यजन एव स्विष्ट कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इत्युक्तं भवतीति सूत्रार्थः। यदीदृग्गुणः श्रेष्ठयज्ञयजतेअतस्त्वमपीदृग्गुण एव, तथा चतंयजमानस्य कान्युपकरणानि को वा वजनविधिरित्यभिप्रायेण त एवमाहुःके ते जोई के व ते जोइठाण? का ते सूया किं च ते कारिसंऽगं? एहा य ते कयरा संति भिक्खू ? कयरेण होमेण हुणासि जोइं? // 13 // किम्, अयमर्थः-किं रूपं ते-तव 'ज्योति' रिति अग्निः 'के व ते जोइठाण' ति किं वा ते-तव ज्योतिःस्थानं यत्र ज्योतिर्निधीयते, का | श्रुवो? -घृतादिप्रक्षेपिका दर्व्यः, 'किं च त्ति किं वा करीषः-प्रतीतःस एवाङ्गम्-अग्न्युद्दीपनकारणं करीषाङ्गं येनासौ सन्धुक्ष्यते, एधाश्चसमिधो यकाभिरग्निः प्रज्वाल्यते, ते-तव कतरा इति–का? 'संति-' त्ति चस्य गम्यमानत्वाच्छान्तिश्चदुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमः, "भिक्खु' इति भिक्षो ! कतरेण होमेन-हवनविधिना, समेन धावतीत्यादिवत् तृतीया जुहोषि-आहुतिभिः प्रीणयसि, किं?--- ज्योतिः--अग्रिम् षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मदभिमतो होमः तदुपकरणानि च पूर्व निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः। मुनिराह तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं करीसंऽगं। कम्म एहा संजमजोग संती, होम हुणामी इसिणं पसत्थं // 4 // तपो-बाह्याभ्यन्तरभेदभिन्नज्योतिः-अग्निः, यथा हिज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽपि भावेन्धनानिकर्माणि, जीवो-जन्तुर्योतिः स्थान-तपोज्योतिषस्तदाश्रयत्वात्, युज्यन्ते-सम्बध्यन्तेस्वकर्मणेति योगाः-मनोवाकायाः श्रुवः, ते हि शुभव्यापाराःस्नेहस्थानीयाः, तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं-करीषाङ्ग, तेनैव हि तपोज्योतिरुद्दीप्यते, तद्भावभावित्वात्तस्य, कर्म-उक्तरूपम् एधास्तस्यैव तपसा भस्मीभावनयनात्, 'संजमजोग' त्ति संयमयोगाःसंयमव्यापाराः शान्तिः सर्वप्राण्युपद्रवापहारित्वात्तेषां, तथा 'होम' ति होमेन जुहोति तपोज्योतिरिति गम्यते, ऋषीणां-मुनीनां सम्बन्धिना 'पसत्थं ति प्रशस्तेन जीवोपघातरहित्वेन विवेकिभिः ग्लाघितेन सम्यक्चारित्रेणेति भावः / अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः। तदेतेन 'किं माहना जोइसमारहंता' इत्यादिना लोकप्रसिद्धयज्ञानां स्नानस्य च निषिद्धत्वाद्यज्ञस्वरूपं तैः पृष्ट कथितंच मुनिना। इदानीं स्नानस्वरूपं पिपृच्छिषव इदमाहुःके ते हरए के य ते संतितित्थे? कहंसि ण्हाओ व रंय जहासि?। आयक्खणे संजय ! जक्खपूइया,! इच्छामुनाउं भवओ सगासे // 45 // कस्ते तव ह्रदः-नदः? 'के य ते संतितित्थे' त्ति किं च 'ते' -तव शान्त्यै-पापोपशमननिमित्तं तीर्थं-पुण्यक्षेत्रं-शान्तितीर्थम्, अथवा-- 'कानि च' किंरूपाणि 'ते'-तव सन्ति-विद्यन्ते तीर्थानि--संसारोदधितरणोपायभूतानि, लोकप्रसिद्धतीर्थानि हि त्वया निषिद्धनीति, तथा च-'कहिंसिण्हाओ वे' तिवाशब्दस्य भिन्नक्रमत्वात्कस्मिन् वा स्नातः-- शुचिर्भूतो रज इव रजः-कर्म जहासि-त्यजसित्वं ? गम्भीराभिप्रायो हि भवांस्तत् किमस्माकमिव भवतोऽपिहृदतीर्थ एव शुद्धिस्थानमन्यद्वेति नविद्म इति भावः-आचक्ष्व-व्यक्तं वद संयत! यक्षपूजित! इच्छामःअभिलषामो ज्ञातुम् अवगन्तुंभवतः-तवसकाशे-समीपे इतिसूत्रार्थः। ___ मुनिराहधम्मे हरए बंभे संतितित्थे, अणाविले अत्तपसन्नलेसे। जहि सि बहाओ विमलो विसुद्धो, सुसीइभूओ पजहामि दोसं॥ 46 // एवं सिणाणं कुसलेण दिलु, महासिणाणं इसिणं पसत्थं / जहिं सिण्हाया विमला विसुद्धा, महारिसी उत्तमं ठाण पत्ति॥४७॥

Loading...

Page Navigation
1 ... 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276