Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1231
________________ हिंडग 1207 - अभिधानराजेन्द्रः - भाग 7 हिंडग गच्छन्ति यत्र गच्छः सुखेन वसितुं याति, स्तेनाश्च यत्र न सन्ति, यत्र व्यालाः तथा स्वापदान सन्ति स्वापदभुजगादयो न सन्ति, 'पञ्चावाय' त्ति एकस्मिन् पथि गच्छतां दिवा प्रत्यप्रायः, अन्यत्र रात्रौ प्रत्यपायः, ततो निरूप्य गन्तव्यम्। 'जाणविहि' त्ति अयं गमनविधिः। कथं पुनस्ते व्रजन्तीत्याहसुत्तत्थं अकरिता, भिक्खं काउं अइंति अवरण्हे। बिइयदिणे सज्झाओ, पोरिसिअद्धाइ संघाडो।। 144 // सूत्रपौरुषीम् अर्थपौरुषीं चाकुर्वन्तो व्रजन्ति तावद्यावदभिमतं क्षेत्र प्राप्ता भवन्ति, पुनश्च ते किं कुर्वन्तीत्यत आह-'भिक्खं काउं अइंति अवरण्हे' भिक्षां कृत्वा तदासन्नग्रामे तदहिर्वा भक्षयित्वा पुनश्यापहाले प्रविशन्ति, ततो वसतिमन्वेषयन्ति, लब्धाया च वसतौ कालं गृहीत्वा द्वितीयदिवसे किञ्चिन्न्यूनपौरुषीमात्रं कालं स्वाध्यायं कुर्वन्ति। पुनश्च 'पोरिसिअद्धाइ संघाडो' 'पोरुसिअद्धाए' पौरुषीकाले सङ्घाटकंकृत्वा भिक्षार्थ प्रविशन्ति, अथवा-स्वाध्यायं कियन्तमपि कालं कृत्वा पोरुसिअद्धाए' अर्द्धपौरुष्यामित्यर्थः, सङ्घाटकं कृत्वा प्रविशन्तीति! इदानीं ते सङ्घाटकेन प्रविष्टास्तत् क्षेत्रं त्रिधा विभजयन्ति, एतदेवाहखेत्तं तिहा करेत्ता, दोसीणे नीणिअम्मिण वयंति। अण्णो लद्धो बहुओ, थोवंदे मा य रूसेजा / / 155 // क्षेत्रं त्रिधा कृत्वा-त्रिभिर्भागैर्विभज्य एको विभागः प्रत्युषस्येव हिण्ड्यते, अपरो मध्याह्ने हिण्ड्यते, अपरोऽपराह्न, एवं ते भिक्षामटन्ति। 'दोसीणे नीणियम्मिउवदंति' 'दोसीणे' पर्युषिते आहारे निस्सारितेसति वदन्ति'अण्णो लट्टे बहुओ' अन्य आहारो लब्धः प्रचुरः, ततश्च 'थोव दे' त्ति स्तोकं ददस्वस्वल्पं प्रयच्छ, ‘मा य रूसेज' त्ति मा वा रोषं ग्रहीष्यस्यनादरजनितम्, एतच्चासौ परीक्षार्थं करोति, किमयं लोको दानशीलो? न वेति। अहव ण दोसीणं चिअ, जायामो देहि दहि घयंखीरं। खीरे घयगुलपेज्जा, थोवं थोवं च सव्वत्थ / / 153 // अथवा-एतदसौ साधुर्ब्रवीति-नवयं 'दोसीणं चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः, तथा क्षीरेलब्धेसति गुडघृतं पेयां / ददस्व / सर्वत्र सर्वेषु कुलेषु स्तोकं स्तोकं गृह्णन्ति ते साधयः, एवं तावत्प्रत्युषसि भिक्षाटनं कुर्वन्ति। अधुना मध्याह्नाटनविधिरुच्यतेमज्झण्हि पउरमिक्खं, परिताविअपिञ्जजूसपयकठि। ओभट्ठमणोभटुं, लन्भइ जं जत्थ पाउग्गं / / 147 // मध्याह्ने प्रचुरा भिक्षा लभ्यते 'परिताविय' त्ति परितलितं सुकुमारि.. कादि, तथा पेया लभ्यते, जूषः पाटलादेः, (पटोलादेः)तथा पयः-- कथितम् 'ओहट्ठभणोभट्ठ लब्मति' प्रार्थितमप्रार्थितं वा लभ्यते 'जं जत्थ' यद्-वस्तुयत्र क्षेत्रे प्रायोग्यम्-इष्ट तदित्थंभूतं क्षेत्र प्रधानमिति। इदानीमपराहे भिक्षावेलां प्रतिपादयन्नाह चरिमे परितावियपे-ज जूस आएस अतरणट्ठाए। एकेकगसंजुत्तं, भत्तटुं एक्कमेक्कस्स / / 148 // चरिमे-चरमपौरुष्यामटन्ति, तत्र च परितलितानि पेया यूषश्च यदि लभ्यते ततः 'आएस' त्ति प्राघूर्णकः 'अतरण' त्ति ग्लानस्तदेषामर्थाय भवति, ततश्च तत्प्रधानम् / एवं तेऽटित्वा भत्तटुं' ति उदरपूरणमेकस्यानयन्ति, कथम् ?-'एक्कक्कगसंजुत्तं' एकः साधुरेकेन संयुक्तो यस्मिन्नानयने तदेकैकसंयुक्तमानयन्ति, 'एक्कमेक्कस्स' ति परस्परस्य आनयन्ति, एतदुक्तं भवति द्वौ साधू अटतः एक आस्ते प्रत्युषसि पुनर्द्वितीयवेलायां तयोर्द्वयोर्मध्यादेक आस्ते अपरः प्रयाति प्रथमव्यवस्थितं गृहीत्वा, तृतीयवेलायां च यो द्वितीयवेलायां रक्षपालः स्थितः स प्रथमस्थितरक्षपालेन सह व्रजति, इतरस्तु येन वारद्वयमटितं स तिष्ठति / एवमेव एषां त्रयाणामेकैकस्य सङ्घाटककल्पनया पर्यटनं 'द्वयोर्योजनीयम्। एवम्ओसह मेसजाणि अ, कालं च कुले यदाणमाईणि। सग्गामे पेहिता, पेहंति ततो परग्गामे || 146 / / एवम् औषधं-हरीतक्यादि, भेषजं-पेयादि, एतच्च प्रार्थनाद्वारेण प्रत्युपेक्षते, 'कालं च त्तिकालं प्रत्युपेक्षते, 'कुले यदाणमाईणि' कुलानि च दानश्राद्धकादीनि, "दाणे अहिगमसद्धे' एवमादि, एतानि कुलानि प्रत्युक्षेपते। एतानि चस्वग्रामे पेहेत्ता प्रत्युपेक्ष्य ततः परनामे प्रत्युपेक्षत। चोयगवयणं दीहं, पणीयगहणे य नणु भवे दोसा। जुज्जइ तं गुरुपाहुण-गिलाणगट्ठान दप्पहा / / 150 // चोदकवचनं, किमित्यत आह-दीहं दीर्घ भिक्षाटनं कुर्वन्ति ते 'पणीयगहणे ति स्नेहवद्र्व्यग्रहणे च ननु भवन्ति दोषाः / आचार्यस्त्वाह'जुञ्जति तं' युज्यते तत्सर्वं दीर्घ भिक्षाटनं यत् प्रणीतग्रहणं च, यतः 'गुरुपाहुणगिलाणगट्ठा' गुरुप्राघूर्णकग्लानार्थमसौ प्रत्युपेक्षते नदार्थ, न चात्मार्थ प्रणीतादेहणमिति। जइ पुण खद्धपणीए, अकारणे एकसिं पि गिण्हेजा। तहि दोसा तेण उ, अकारणे खद्धनिद्धाइं।। 151 / / यदि पुनः खद्धं-प्रचुर प्रणीतं-स्निग्धम्, एतानि अकारणे स कृदपि गृह्णीयात् 'तहिअंदोसा' ततस्तस्मिन् ग्रहणे दोष भवेयुः। किं कारणम् ? यतः 'तेण उ' तेन-साधुना 'अकारणे खद्धनिद्धाइं अकारणे-कारणमन्तरेणैव 'खद्धाई' भक्षितानि स्निग्धनि-स्नेहवन्ति द्रव्याणि, अथवाअकारणे 'खद्धनिद्धाई' प्रचुरस्निग्धानि तेनासेवितानीति। एवं-रुहए थंडिल वसही, य देउलिअसुण्णगेहमाईणि। पाओगमणुण्णावण, वियालणे तस्स परिकहणा।। 152 // एवम्-उक्तेन प्रकारेण 'रुचिए' ति 'रुचिते' अभीष्टे क्षेत्रे सति 'थंडिल' ति ततः स्थण्डिलानि प्रत्युपेक्षन्ते, येषु मृतः परिष्ठाप्यते महास्थण्डिलं 'वसहि ति वसतिं निरूपयन्ति / १-एवमित्यधिकमपि पुस्तकानुरोधात् टीकाकृता व्याख्यातत्त्वाच मूले एव गृहीतम्। -

Loading...

Page Navigation
1 ... 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276