Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिएस 1187 - अभिधानराजेन्द्रः - भाग 7 हरिएस णाग्रतः स्थातुम्।।१।।"न चैवमग्न्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाद्यभावास्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलरहितं वस्तुसत्, तथा च निश्चयो यदेवार्थक्रियाकारितदेव परमार्थसदित्याह, ततः स्थितमेतत्-'ताइंतु'त्ति तुरवधारणे, भिन्नक्रमश्च। ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, नतुसुपेशलानि, क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः। कदाचित्ते वदेयुः-वेदविद्याविदो वयमत एव च ब्राह्मणजातयस्तत्कथं जातिविद्याविहीना इत्युक्तवानसीत्याहतुमित्थ भो! मारहरा गिराणं, अटुं न याणाह अहिज्ज वेए। उचावयाइं मुणिणो चरंति, ताइंतु खित्ताई सुपेसलाई॥१५॥ यूयमत्रेति-लोके भो' इत्यामन्त्रणे भारं धरन्तीति भारधराः, पाठान्तरतो वा-'भारवहा'वा, कासां? गिरां-वाचां, प्रक्रमाद्वेदसम्बन्धिनीनाम्, इह च भारस्तासां भूयस्त्वमेव, किमिति भारधरा भारवहा वेति उच्यते, यतोऽर्थम्-अभिधेयं न जानीथनावबुध्यध्वे ? 'अहिज' त्ति अपेर्गम्यमानत्वादधीत्यापि वेदान्-ऋग्वेदादीन्, तथाहि-'आत्मा वा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' तथा 'कर्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविणमन्विच्छमानाः, अथा परं कर्मभ्योऽमृतत्वमानशुः "परेण नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति / वेदाहमेनं पुरुषं महान्तं तमेव विदित्वा अमृतत्वमेति // 1 // " नान्यः पन्थाः अयनाये' त्यादिवचनानां यद्यर्थवेत्तारः स्युस्तत्किमित्थं यागादि कुरिन् ? ततस्तत्त्वतो वेदविद्याविदो भवन्तो न भवन्ति, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह–'उच्चावयाई ति उच्चावचानि-उत्तमाधमानि मुनयश्चरन्ति भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भप्रवृत्तयः त एव परमार्थतो वेदार्थ विदन्ति तत्रापि भेक्षवृत्तेरेव समर्थितत्वात्, तथा च वेदानुवादिनः-चरेद् माधुकारी वृत्तिमपिम्लेच्छकुलादपि। एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि।। १॥"यदिवोचावचानि-विकृष्टाविकृष्टतया नानाविधानि, तपासीति गम्यते, उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि ये मुनयश्चरन्ति आसेवन्ते, न तु यूयमिवाऽजितेन्द्रिया अशीला वा, तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थः। इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुःअज्झावयाणं पडिकूलभासी, पभाससे किन्नु सगासि अम्हं? अवि एवं विणस्सउ अन्नपाणं, न यणं दाहामु तुमं नियंठा ! // 13 // अध्यापयन्ति-पाठ्यन्तीत्यध्यापकाः-उपाध्यायस्तेषां प्रतिकूलंप्रतिलोमं भाषते वक्तीत्येवंशीलः प्रतिकूलभाषी सन् प्रकर्षण भाषसे ब्रूपे प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदित्यं भवान् ब्रूते सकाशे-समीपे 'अम्हं तिअस्माकम्, अपिः सम्भावनायाम् एतत्-परिदृश्यमानं विनश्यतुक्वथितत्वादिना स्वरूपहानिमाप्नोतु अन्नपानम् ओदनकाञ्जिकादि, 'न च' नैव 'ण' मिति वाक्यालङ्कारे 'दाहामु त्ति दास्यामस्तव हे निर्ग्रन्थ ! निष्किञ्चन ! गुरुप्रत्यनीको हि भवान, अन्यथा तु कदाचिदनुकम्पया किश्चिदन्तप्रान्तादि दद्यमोऽपीति भाव इति सूत्रार्थः। यक्ष आहसमिईहिँ मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स। जइ मे न दाहित्थ अहेसणिज्ज, किमज जन्नाण लमित्थ लाभं? // 17 // समितिभिः-ईसिमित्यादिभिर्मह्यं सुष्टु समाहितास-समाधिमते सुसमाहिताय गुप्तिभिः-मनोगुप्यादिभिर्गुप्ताय जितेन्द्रियायेति च प्राग्वत्, सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'यदीत्यभ्युपगमे' 'मे' मह्यं 'मज्झं तीत्यस्य व्यवहितत्वात् क्रियां प्रति पुनरुपादनामदुष्टमेव न दास्यथ-न वितरिष्यथ, 'अथे' त्युपन्यासे आनन्तर्ये वा, एषणीयम्-एषणा-विशुद्धमन्नादिकं, किं न किञ्चिदित्यर्थः, अज्जत्ति अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'अज' त्ति हे आर्या ! यज्ञानां 'लभित्थ' त्ति सूत्रस्थाल्लप्स्यव्वे--प्राप्स्यध्वे लाभंपुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्रतु तथाविधफलाभावेन दीयमानस्य हानिरेव, उक्तं हि-"दधिमधुघृतान्यपात्रे, क्षिप्तानि यथाऽशु नाशमुपयान्ति। एवमपात्रे दत्ता-नि केवलं नाशमुपयान्ति॥ 1 / / इति सूत्रार्थः / इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यतेके इत्थ खत्त उवजोइया वा, अज्झावया वा सह खंडिएहिं? एयं खु दंडेण फलेण हंता, कंठम्मि धितूण खलिज जो णं / / 18 // के 'अत्रे' त्येतस्मिन् स्थाने क्षत्राः-क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्मनियुक्ताः 'उवजोइय'त्ति ज्योतिषः समीपे येत उपज्योतिषस्त एवोपज्योतिष्काः अग्निसमीपवर्त्तिनो महानसिका ऋत्विजो वा अध्यापकाः-पाठकाः, ते वा उभयत्र वा विकल्प 'सहे' ति युक्ताः कैः ? 'खण्डिकैः छात्रैः, ये किमित्याह-एन-श्रवणकं दण्डेन वंशयष्ट्यादिना फलेन-विल्वादिना 'हते' ति हत्वा ताडयित्वा, यदा-'दण्डेने' ति कूर्पराभिघातेन फलेन-च मुष्टिप्रहारेणेति वृद्धाः, ततश्च कण्ठे-गले गृहीत्वा-उपादाय 'खल्लेन्ज' त्ति स्खलयेयु:-निष्काशयेयुः, यो त्ति वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्काशनेवाशक्ताः, 'णमि वाक्यालङ्कारे, इतिसूत्रार्थः। अत्रान्तरे यदभूत्तदाहअज्झावयाणं वयणं सुणित्ता। उद्धाइया तत्थ बहू कुमारा।

Page Navigation
1 ... 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276