Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1201
________________ हत्थकम्म 1177 - अभिधानराजेन्द्रः - भाग 7 हत्थकम्म अत्र तिष्ठतां दोषानुपदर्शयतिआलिंगणादी पडिसेवणं वा, दव्वं सचित्ताणमचेदणं वा। सद्देहिं रूवेहि य इंधिते तु, मोहग्गी संदिप्पति हीणसत्ते॥ 1240 / / तेषां तत्रगतानाम्-आगन्तुकानां वा सचित्तानां स्त्रीरूपाणाम् आलिङ्गनादीनि प्रतिसेवनां कुर्वतो दृष्ट्वा अचेतनानि वा स्त्रीरूपाणि विलोक्य प्रतिसेव्यमानाया वा स्त्रियाः शब्दान् श्रुत्वा तैः शब्दै रूपैश्च इन्धितःप्रज्वालितो मोहाग्निः कस्यापि हीनसत्त्वस्य भुक्तभोगिनाऽभुक्तभोगिनो या संदीप्यते, ततः स्मृतिकरणकौतुकदोषा भवेयुः। कथमित्याहकुतूहलं च गमणं, सिंगारं कुड्डछिडकरणे य / दिडे परिणयकरणे, भिक्खुणों मूलं दुवे इतरे। 1241 / / कुतूहलं तस्योत्पद्यते यथाऽत्रगत्वा पश्यामि शृणोमि शब्दम् एवं कुतूहले उत्पन्ने तत्र गमनं कुर्यात्, शृङ्गारं वा गायन्तीं श्रुत्वा गच्छेत्, कुड्यस्य वा छिद्रं कृत्वा प्रलोकयेत्। दृष्ट च सोऽपि तद्भावपरिणतो भवेत् अहमप्येवं करोमीति। एवं तद्भावपरिणतः कश्चित्तदेवालिङ्गनाऽऽदिकरणं कुर्यात्। एतेषु स्थानेषु भिक्षोर्मूलं यावत्प्रायश्चित्तम्। इतरयोरुपाध्यायाचार्ययोर्यथाक्रम, द्वे अनवस्थाप्यपाराश्चिके चरमपदे भवतः। इदमेव व्याचष्टेलहुगो लहुआ गुरुगा, छम्मासा छेदमूलदुगमेव / दिढे च गहणमादी, पुटवुत्ता पच्छकम्मं वा / / 1242 // तत्र गतः शृणोति मासलघु, कुतूहलं तस्योत्पद्यते मासगुरु, वज्रतश्चतुर्लधुकाः, शृङ्गारं शुण्वतश्चतुर्गुरुकाः, कुड्यस्य छिद्रकरणे षण्मासा लघवः, छिद्रेण पश्यन्नास्तेषड्गुरवः, तद्भावपरिणते छेदः, आलिङ्गनादिकरणे मूलम्, एवं भिक्षोः प्रायश्चित्तमुक्तम्। उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये पर्यवस्यति। आचार्यस्य चतुर्लघुकादारब्धं पाराञ्चिके तिष्ठति।अन्यच आरक्षिकादिभिदृष्ट सति ग्रहणाऽऽकर्षणादयः पूर्वोक्ता दोषाः, या प्रतिमा सा कदाचिदालिङ्ग्यमाना भज्येत ततः पश्चात्कर्मदोषः, एष वसतिविषयो रूपदोष उक्तः। ___ अथ विस्तरतो दोषमाहअप्पो य गच्छो महती य साला, निक्कारणे ते य तहिं ठिताओ। कजट्ठियावा जतणाएँ हीणा, पावंति दोसं जतणा इयं तु // 1253 // अल्पश्चासौ गच्छस्तत्र प्रतिश्रये स्थितः, शाला च सा महतीविस्तीर्णा, ते च साधवो निष्कारणे तत्रोपाश्रये स्थिता वर्तन्ते। अथवाकार्यस्थिताः परं यतनया वक्ष्यमाणया हीनास्ततो वेश्याप्रभृतिषु स्त्रीषु समागच्छन्तीषु दोषं कौतुकस्मृतिकरणादिकं प्राप्नुवन्ति, कारणे तुतत्र तिष्ठतामियं यतना। यतनास्वरूपमाहआसिवादिकारणेहि,अण्णासति वित्थडीऍठायंति। ओतप्पोत करिती, संथारगवत्थपादेहिं / / 1245 // अशिवादिभिः कारणैः क्षेत्रान्तरे अतिष्ठन्तस्तत्राऽन्यस्या वसतेरभावे विस्मृतायामपि वतसौ तिष्ठन्ति, तत्र च संस्तारकैर्वस्त्रपात्रैश्च भूमिकाम् 'ओतप्पोतं' ति (आस्तृतां) कुर्वन्ति; पालयन्तीत्यर्थः / इदमेव व्यनक्तिभूमीए संथारे, अद्धवियड्डे करिति तह दटुं / ठातुमणा वि दिवसओ, नठति रत्तिं तिमा जयणा। 1245 / विस्तीर्णायां वसतौ तथा भूम्यां संस्तारकमर्दू विवर्द्धितं ते कुर्वन्ति, तथा तान् दृष्ट्वा स्थातुंमनसोऽपिन तिष्ठन्ति, एषा दिवसतो यतना। रात्रौ पुनरियं यतना। वेसत्थीआगमणे, अवारणे चउगुरू व आणादी। अणुलोममनिग्गमणे, ठाणं अन्नत्थ रुक्खादी॥१२४६॥ वेश्यास्त्री यदि रात्रावागच्छति भणति च अहमप्यत्र वसामीति सा वारणीया / अथ न वारयन्ति ततश्चतुर्गुरुकम्, आज्ञादयश्च दोषाः / 'अणुलोम' ति अनुक्तैर्वचनैः सा प्रतिषेद्धव्या न खरपरुषैः, सा साधूनामभ्याख्यानं दद्यादिति कृत्वा 'निग्गमणे' त्ति यदि सा वेश्या गन्तुं नेच्छतिततःसाधुभिर्गन्तव्यम्, अन्यस्मिन्-अन्यगृहादिस्थाने स्थातव्यम्, तदभावे वृक्षमूलादावपिस्थेयं न पुनस्तत्रेति। इदमेव व्यक्तीकरोतिपुढवीउ सासजोती, हरियतसा तेणउवहि वासं वा। सावगसरीरतणग, फरसादीजाव ववहारो॥१२४७।। यद्यपि बहिः पृथिवीकायः, सा वेश्या सज्योतिर्वा साग्निका, अन्या वसतिः हरितकायस्त्रसप्राणिनो वा तत्र सन्ति तथापि निर्गन्तव्यम्। अथ बहिरुपधिस्तेनभयं वर्ष वा वर्षति,स्वापदा शरीरस्तेनका वा तत्र सन्ति, ततः परुषवचनैरपि सा वेश्या भणितव्यानिर्गच्छास्मदीयप्रतिश्रयात्, आदिशब्दात्तथाप्यनिर्गच्छन्त्यां बन्धनादिकमपि विधीयते यावद् व्यवहारोऽपि करणे उपस्थितायाः कर्तव्यः। इदमेव भावयतिअम्हे दाणि वि सहिमो, इड्डिमपुत्तबलवं असहणो ऽयं / णीहि अणिते बंधण, णिवकहणे सिरिघरोहरणं / 1248 / साधवो भणन्ति-वयं क्षमाशीलाः इदानी विविधं विशिष्टं या सहामहे, ततो यस्त्वाकारवान् साधुः स दर्शनीयः, अयं तु ऋद्धिमत्पुत्रो राजकुमारादिर्बलवान् सहस्रयोधी असहनः कोपनो बलादपि भवन्तीं निष्काशयिष्यति, ततः स्वयमेव निर्गच्छ, यदि निर्गच्छति ततो लष्टम्, अथ न निर्गच्छति तदा सर्वेऽपि साधव एको वा बलवान् तां बध्नाति, ततः प्रभाते मुच्यते / मुक्ता च यदि नृपस्यान्तिके साधूनाकर्षयति तदा करणे गत्वा कारणिकादीनां व्यवहारो दीयते। तत्र च श्रीगृहोदाहरणं कर्त्तव्यम्। यथा-यदि राज्ञः श्रीगृहे रत्नापहार

Loading...

Page Navigation
1 ... 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276