Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
आवश्यक-सप्ततिः स एव तत्र भवं वा, तेन वा निवृत्तं तत्प्रयोजनं वा सामायिकम् । यद्वा-सम्यग्ज्ञानादीनामायो-लाभः समायः । शेषं पूर्ववत् । चतुविंशतिसङ ख्यानां तीर्थकराणां स्तवो यत्र दण्डके स चतुर्विंशतिस्तवः। सामायिक चतुर्विंशतिस्तवश्चेति समास: । तावादी यस्य वन्दनक-प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानरूपचतुष्टयस्य तचदादि । एवं च सामायिक-चतुर्विंशतिस्तवादि यदवश्यकर्त्तव्यं तदावश्यकमिति योगः । केनेत्याहुः श्रमणादिना । श्रमणः-सर्वसावद्ययोगविरतः तदादिना । आदिशब्दाभिधेयं स्वयमेव वक्ष्यति-'साहूसु' इत्यादिना । एतच्च न स्वातन्त्र्यादुच्यते किन्तु पारगतोक्तागमपारतन्त्र्यादिति 'मुत्ते'त्ति । सूत्रेऽनुयोगद्वाराख्ये यतो भणितमिति ॥२॥ भणितमेव दर्शयतिसमणेण सावरण य अवस्स कायव्ययं हवइ जम्हा । अंतो अहोनिसस्स तम्हा प्रावस्सयं बेंति (नाम) ॥३॥
व्याख्या--श्राम्यति-तपस्यतीति श्रमणः सन्मनाः सममनाश्च । यथोक्तं
तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो। सयणे य जणे य समो समो य माणावमाणेसु' ॥१२॥ तेन, तथा शृणोति सर्वज्ञोक्तं तत्त्वमिति श्रावकः । यदुक्तं
धम्मोवग्गहदाणाइसंगओ सावओ परो होइ। __ भावेण शुद्धचित्तो निच्चं जिणवयणसवणरई' ॥१।। तेन च । चशब्दस्यानुक्तसमुच्चयार्थत्वात् साध्वी-श्राविकाभ्यां च । किम् ? अवश्यं-नियमेन अन्तः-मध्ये अह्नो निशायाश्च कर्त्तव्यक भवति यस्मात् तस्मादावश्यकमिति ब्रु वते ॥३॥
अथावश्यकस्य पूर्वार्द्धन भेदानुत्तरार्द्धन तद्भदाद्यभेदस्य स्वरूपं प्रकटयन्ति

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68