Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 65
________________ ५४ आवश्यक-सप्ततिः ___ अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव' ॥ इति । इत्थं तत्त्वमेदव्या. ख्या ख्यापिता पूज्यैः । पर्यायव्याख्या तु सुखोन्नेयत्वान्नोक्ता परमित्थं ज्ञातव्या। आवस्सय अवस्सकरिणज्जं धुवनिग्गहो विसोही य । अझयणछक्कवरगो णाश्रो आराहणामग्गो ॥ धुवनिग्गहोत्ति । अनादित्वात् प्रायोऽनन्तत्वाच्च ध्र वं-कर्म तत्फलभूतो वा भवस्तस्य निग्रहः। तथा नैयत्येन जीवकर्मसम्बन्धव्यवहारापनयनान्यायः । शेष सुगमम् ।।६८।। अर्थतस्य चतुर्विधस्यापि करणफलमुपदर्श पन्तः प्राहुःदवाइसुद्धमेयं धीरा आवस्सयं विहेऊणं । पाविति पावणिज्जं णिरवज्ज मुक्खसुक्खंति ॥६९।। व्याख्या-द्रव्यं तावद्-- 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम' ॥ इत्येवं लक्षणलक्षितं साध्वादि, आदिशब्दसूचितं च क्षेत्रं गुरुसमीपादि, कालश्च दिवसादिः, भावश्चोपयोगप्रधानत्वादिः एतैः शुद्ध', शुद्धता चास्य द्रव्यादिभिस्तदेव भवति यदि प्रागुक्तानि साध्वादीनि द्रव्यादीनि भवन्ति, तद्विपरीतानि तु मिथ्यादृष्टि-क्षेत्रान्तर-कालान्तर-भावशून्यस्वादीनि द्रव्याद्याभासानि तैरपरिशुद्धमेवैतदिति भावः । ततो द्रव्यादिभिः शुद्धमेतत् 'सामाइय चउवीसत्थयाई' त्यादिगाथोक्तसामान्यलक्षणलक्षितमावश्यकं हेयोपादेविवेकवत्या धिया राजन्त इति धीरा:स्थिरप्रतिज्ञाः विधाय-कृत्वा विचित्रव्रतचर्यया प्रापणीयं, तथा 'स्मरज्वरजरामुख्या दोषा भवभुवोऽत्र ये । सर्वथा ते न सन्त्येव यत्र तत्परमं पदम् ॥ इति स्वयमेव पूज्य. पादोपदर्शितप्रकारेण प्रत्यासत्तिमात्रप्रकटीकृतमधुरत्वात् किम्पाक

Loading...

Page Navigation
1 ... 63 64 65 66 67 68