Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
मोक्षस्वरूपम्
५५ प्रतिषिषमैविषयैस्तथा सद्य एव जनितनितान्तसन्तापतान्तिभिर्जन्मजरारोगशोकादिदुरन्तदुःखैर्दोषरूपैरदूषितत्वानिरवद्यम् । यत्-कृत्स्नकमक्षयलक्षणे मोक्षे सिद्धानां तस्य वा सुख-परमाह्नादरूप संसारोत्तमानुत्तरसुरसौख्यादप्यनन्तानन्तगुणं तत्प्राप्नुवन्तीति ।।।
सम्प्रति प्रस्तुतप्रकरणस्यावश्यक सप्तत्याख्यस्य पाक्षिकसप्तत्यपरनामधेयस्य प्रयोजनं प्रकटयन्तः स्वप्रज्ञामात्रपरिकल्पितत्वं नियुक्तिकत्वं च परिहरन्तः प्राहु:मुणिचंदररिणा सुमरणथमिणमप्पणो पवयणायो । उद्धरियं जुत्तिजुअं परेसि संबोहणत्थं च ॥७०।।
इति पाक्षिक-सत्तरी। व्याख्या:-- मुनि चन्द्रसूरिणेत्यौद्धत्यपरिहारार्थमे कवचनम् । मात्मनः स्मरणार्थमित्यनेन प्रधानप्रयोजनमुक्तं, स्मरणं च प्रक्रमादावश्यकस्वरूपस्यैव, इदमावश्यक-सप्तत्याख्यं प्रकरणं प्रवचनात्महानिशीथ-कल्पव्यवहार-दशाश्रतस्कन्धावश्यकचूर्णिप्रमुखाचतुर्दशपूर्वक्षीरार्णव सुधारसस्वरूपादुद्धत न पुनः स्वमतिमात्रपरिकल्पितं, तत एव युक्तियुतं पूर्वोक्तप्रकारेण पूर्वापराविरुद्धयुक्तिजालकलितं परेषां विप्रतिपन्नानां तद्विप्रतार्यमाणान्यजन्तूनां च सम्बोधनार्थं च-सम्यक यथावस्थिततत्त्वप्रदर्शनेन बोधनार्थ च, न केवलमात्मस्मरणार्थ, चेत्यानुषङ्गिकप्रयोजनसमुच्चय इति ॥७०॥
श्रीदेवसूरिसुगुरोः स्फुटनाममन्त्र
नित्यस्मृतिम्तदुपदेशषशेन वृत्तिम् । श्रीमन्मुनीन्द्र-मुनिचन्द्रकृतावमुष्यां
सूरिमहेश्वर इति प्रकटीचकार ॥१॥ सिद्धान्ततर्कसाहित्यलक्षणेषु विचक्षणः ।
वनसेनसुधीरस्मतसाहाय्यं कृतवानिह ।२।।

Page Navigation
1 ... 64 65 66 67 68