Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
१८
आवश्यक-सप्ततिः मिति भाष्यं पक्खिए अभत्तट्ठ न करेइ सबसाहू चेइयाणि य न वंदइ तो पच्छित्त' मिति व्याख्यानयता व्यवहारचूर्णिकृता विनिदिष्टमिति योगः । न चैतदनुपपन्नं । यतो-अत्र प्रयोगोऽपि पाक्षिक चैत्ययतिवन्दनपूर्वकमेव कर्त्तव्यं पूर्वदिनातिचारविशोधकरूढपर्वत्वाच्चतुर्मासकवदित्यतोऽपि चैत्ययतिवन्दनं पाक्षिके कर्त्तव्यमिति सिद्धम् । तच्चान्यप्रन्थेष्वमावास्यापूर्णिमयोर्न संवदति ।
चतुर्दश्यां तु संवादं दर्शयन्तिश्रावस्सयचुण्णीए सव्वाणि वि चेइयाणि साहू अ। अट्ठमिचउद्दसीसु जं भणिग्रं वंदिअव्व त्ति ॥१५॥
व्याख्या-अमिचउद्दसीसु अरहना साहूणो य वंदियव्वा' इत्यालापकेनावश्कचूर्णौ भणितमिति योगः । सर्वाण्यपि चैत्यानि साधवश्वाष्टमीचतुर्दश्योर्यद्-यस्माद्वन्दितव्या इति । तथा सत्यनुष्ठानत्रयस्य साक्षाच्चतुर्दश्यामेवागमे भणनादालोचनायाश्चामावास्यायां प्रतिषिद्धत्वेन वक्ष्यमाणत्वादनुष्ठानचतुष्टयं चतुर्दश्यधिकरणं सिद्ध भवति । ततः पाक्षिकप्रतिक्रमणं साक्षादनुष्ठानसामर्थ्यादायाति ।१५।
अमुमेवार्थ सङ्कलय्य निरूपयन्तिचेइयजइवंदणतवदिणंमि पडिकमणमत्थो एइ । न य पुण सुत्ते दीसइ जह पंचदसीइ पडिकमणं ॥१६॥ __ व्याख्या-चैत्ययतिवन्दनतपोदिने प्रतिक्रमणं पाक्षिकप्रतिक्रमणमर्थतः-सामर्थ्यादेति । सामादपि न स्याद् यदि साक्षात्पञ्चदश्यां प्रतिक्रमणाभिधानं स्यादित्याहुः-'न य पुण' ति। न च नैव पुनदृश्यते सूत्रे क्वचिदपि स्थाने यथा एञ्चदश्यां पाक्षिक प्रतिक्रमणमिति । भास्तां पञ्चदश्यामागमे तत्प्रतिक्रमणाभणनं किन्तु तत्सहचरानुष्ठानभणनमपि नास्ति यतीनामिति गर्भार्थः ।

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68