Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
महावीर-निर्वाणम्
३३ व्याख्या-चरमा-पञ्चदशी, पश्चानुपूा चरमाया द्वितीया द्विचरमा-चतुर्दशी तत: तयोः यदि नाम पक्षमन्धित्वं रूढं प्रोक्तनीत्या तथापि पूर्वोक्तप्रकारेण सविशेषकृत्यानां चतुर्दश्यामेव भणनात स पक्षसन्धिश्चतुर्द श्यामेव युक्तः प्रकृतगाथायामिति । यच्चात्र केचन'कत्तियबहुलस्स पन्नर सीपक्खेणं जा सा चरमा रयणी तं रयणी च ण समणे भगवं महावीरे कालगए विइक्कते छिण्ण जाइजरामरणबंधणे सिद्धे बुद्धे मुक्के परिनिव्वुर त्ति । तं रयणी च णं नव मल्लइ नव लिच्छ इ य कासीकोसलगा अट्ठारस गणरायाणो वाराभोए पोसहोवव.सं पट्ठवइसु, वुच्छिन्ने भावोज्जोए दव्वुज्जोत करिस्सामो' इति । कासी-वाराणसी तज्जनपदश्च तत्सम्बन्धिनो मल्लकिनामानो नव कोशला-अयोध्या तज्जनपदश्च तत्सत्काश्च लेच्छकिनामानो नव मिलिताश्चाष्टादश । प्रयोजने च सति गणकारित्वात् गणप्रधाना राजानो ये ते तथा । 'वाराभोए' इति । वारमाभोग्यते-अवलोक्यते यस्ते वाराभोगा:-प्रदीपा: तान् न ते केवलं पोषधोपवासं प्रस्थापितवन्तः कृतवन्तः प्रदीपांश्च द्रव्योद्योतरूपान् भावोद्योते गते सतीत्यर्थः । इति पञ्चदशोंसूत्रवचनादमावास्यायाः पक्षसन्धित्वं वणयन्तो अष्टादशानां राज्ञां च तत्र पौषधोपवासं दर्शयन्तःपक्षपतिक्रमणं पञ्चदश्यां समर्थयन्ति । तदयुक्तम्-अत्र चरमरजनित्वमात्रप्रतिपादनेन पक्षसन्धित्वस्यानियन्त्रणात् रूढितश्चरमद्विचरमतिथिव्यापी हि पक्षसन्धिशब्दश्वरमतिथावेवं कथ नियतः स्यात् ? वृक्षवमिवाम्रत्वे । तस्मात् पक्षप्रतिक्रमणसहचरानुष्ठानानां चतुर्दश्यामुपलम्भात् तत्रैव तद्युक्तम् । यत्तु तस्यां रजनावष्टादशकाशीकोशलाधिपतीनां पौषधोपवासकरणं तत् कुतोऽन्यहमहमिकया संचरिष्णु रोधिष्णुविमानमालासहस्रसङ्कलनभस्तलविलोकनादेः कारणाद्विज्ञातभगवनिर्वाणकल्याणकमहोत्सवानां तदिनाराधनाथ चतुःश्व:समाराधनाथ नन्दीश्वरचैत्यपूजनार्थं च ज्ञातव्यम् । न पुनः प्रतिक्रमणार्थम् । प्रक्रमे प्रतिक्रमणनाम्नोप्य श्रवणादिति ॥४२।।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68