Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 53
________________ आवश्यक-सप्ततिः नामपि तत्रैव तं दर्शयन्तिजंमि दिणे साहूणं जुत्तो सो तमि सावयाणंपि । पक्खपडिनकमणविही तवाइतुल्लतभावाउ ॥५॥ व्याख्या-'सवाइतुल्लत्तभावात्ति । चतुर्थचैत्यवन्दनालोचनादेः समानताभावादित्यर्थः । शेष सुगमम् ।।५।। ___ अथैतान्येव तपश्चैत्यवन्दनादीन्यागमोक्तानि श्राद्धानामपि चतुर्दश्यामेवेति गाथात्रयेण दर्शयन्तिदेवीपभावई जं पडिमाए जियंतसामिणीए अ पुरो। अट्ठमिचउद्दसीसु नटुवहारं सयमकासी ॥५६॥ पुत्थयवायणमुक्वास-करणमट्ठमिचउद्दसीदिवसे । जिणदाससावो कासि पोसहं पुण उदाइनिवो ॥५७॥ एयं पुण सविसेसं भणियं श्रावस्सयाइचुण्णीम् । पक्खिअविसेसकिच्चं जाणंता चउद्दसीदिवसे ॥५८॥ व्याख्या-देवी प्रभावती यत् प्रतिमाया जीवतस्वामिन्याः पुरोऽष्टमीचतुर्दश्योर्नाट्योपहार-नाट्य नोपलक्षितां पूजां स्वयमकार्षीदिति सङक्षेपार्थः। ___ व्यासार्थः कथानकादवसे यस्तच्चेइम्-जम्बूद्वीपभरते चम्पानगर्यामनगसेनः सुवर्णकार आस त् । स च पञ्चशैलद्वीपाधिपतिविद्युन्मानिदेवपत्नीभ्यां पतिविप्रयुक्ताभ्यां हासाप्रहासाभ्यां स्त्रीलोलत्वाद् रूपलोभितः सन् पटहोद्घोषणापूर्वकं नावारूढो वृद्धनाविकोपदेशाद्वटद्र मावलग्नो भारण्डपक्षिपादावनद्धदेहयष्टिः पञ्चशैलद्वीपं प्राप्तः । ततश्च मनुष्यशरीरेणाऽsवां नोपभोक्तु पार्यावहे, अतस्त्वमस्मन्निमित्तं निदानं कुर्वित्युक्त्वा ताभ्यां चम्पाया

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68