Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 51
________________ आवश्यक-सप्ततिः व्याख्या-आचार्याः-सुधर्मस्वामी-जम्बूनाम--प्रभवाऽऽयंरक्षिताद्यास्तषां प्रणालिका पारम्पर्य तेनागतं यद्वयाख्यान-सूत्राभिप्रायस्तद् यः कुतर्कदोधमातमानसो मिथ्यात्वोपहतदृष्टितया छेकबुद्धयःनिपुणबुद्धया कुशाग्रोयशेमुषोकोऽहमिति कृत्वा कोपयत्यभिभवति । सर्वज्ञादिप्रणीतमप्यर्थमन्यथा प्ररूपयति स जमालिनाश नश्यति । यथा फिल जमाली क्रियमाणं कृत' मिति भगवद्व वस्तत्त्वबहिभूत प्रतिजानानः स्वप्रज्ञाप्रकर्षण 'कृतमेव कृत' मित्यभिमन्यमानः कुबोध सन्तमससमाच्छादितविवेकतरणिः समपदिष्टाश्रितलोकचतुर्गतिससारसरणिः सद्बोधप्रध्वंसरूपं नाशं जगाम तथाऽन्योऽसीति । न चैतत् पूर्वाचा चरितं शठा सम चरितमिति मन्तव्यम् । सिद्धान्तोपनिषन्निषन्नबुद्धि भवद्गुरुपरम्परयैव समाचीर्णत्वात् । 'असठेहि समाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं' ।। इत्याचरितलक्षणयोगाच्च । भन्यच्च सर्वस्याप्यनुष्ठानस्य निरस्ताभि मानः कश्चिदुपदेष्टाऽन्वेष्टव्यः । तदत्र भवतां पञ्चदशी पाक्षिकप्रतिक्रमणकरणे को नामोपदेशकः संवृत्तः। न तावद् भवदाद्यपुरुषस्यानन्तरो गुरुस्तस्य स्वयं चतुर्दश्यामेव प्रतिक्रमणकरणे प्रवृत्त. त्वात् । स्वशिष्यवत्सलस्यापि तस्य तेभ्यस्तदनुपदेशकत्वाच्च । नापि परम्परागुरुर्भवदाद्यपुरुषेण तस्यादर्शनात तथाविधतत्प्ररूपितसत्प्र. वादाश्रवणाच । तस्मादमानाभिमानग्रहग्रस्तबुद्धिना तौरकिकाम्रदेव दुःश्राद्धश्रद्धाप्रवर्तकेन । तथाऽनुसर पूर्वाचार्यपरम्परापरिचितममु मार्ग । यतः स्फुटानधिगततत्त्वानामयमेव मिथ्यात्वमन्थाः पन्थाः सम्यगिति निधूततमांसि स्ववचांसि । को तत्तो पाषयरो सम्म अणहिगयसमयसब्भावो । भन्नं कुदेसणाए कट्ठयरागंमि पाडेह ॥ इति सिद्धान्तोक्तीश्च प्रतिपादयद्भिः श्री मुनिचन्द्रसूरिभिनिवार्य

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68