Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
गुरुकुल वासत्यागिनः तपस्यादि न सुन्दरम् ४१ माणेनापि तेनैव प्ररूपितोऽयं मार्गः । स च विशुद्धसिद्धान्तानुगत. मतीनां मोक्षकारणानुष्ठानरतानाम् ।
एकेण कयमकजं करेइ तप्पचया पुणो अन्नो ।
सायाबहुलपरंपरवुच्छेभो संजमतवाण' ॥ मित्यागमप्रतिपत्त्या प्रमाणीकृतसर्वज्ञयतीनां सद्यतीनां सतां भवतां नोचितः समाश्रयितुम् । यदुक्तम-अस्मद्गुरुभिः श्रीमद्देवसूरिभिः स्याद्वादरत्नाकरे--
'यदेव हि सुयुक्तिकं तदेव हि सज्जनः सेवते ।
न तु स्वपितृकुकुरोद्वहननीतिमालम्बते इति । अन्यच्च मात्सर्यचर्यापरिहारेण परिभावयन्तु भवन्तः किमेतत् पक्षपरिग्रहकारिणः साक्षादधिगतसमयसारस्यापि स्वप्रकल्पितपथप्रचारिणस्तस्यैदंयुगीनागमरहस्यदक्षं चतुर्दशीपाक्षिकमित्यत्र बद्धकक्षं स्वगुरुकुलपक्षं परित्यजतः कष्टानुष्ठाननिष्ठासुप्रतिष्ठा न वेति । यतः परमागमे प्रत्यपादि-'सुद्धछ।इसु जत्तो गुरुकुलचागाइणेई विन्नेभो । सबरससरक्खपिच्छत्थघायपायाछिवणतुल्लो' ॥ इति । तस्मादाग्रहत्यागेनैव क्रियमाणमनुष्ठानं शुभं-शुभानुबन्धि भवतीति परिभावनीयं सूक्ष्मबुद्वय। ॥ ५३॥
अथ स्वोत्प्रेक्षितत्वमात्रपरिहार द्वारेण माध्यस्थ्यमात्मन्याविर्भावयन्तः प्राहु:जइ हुज्ज दुण्णि दिवसे चेइयजइवंदणोववासो अ। कस्स न हुज्जाणुमयं परं न सुतेण संवयइ ॥५४॥ .. व्याख्या-यदि स्यात् द्वौ दिवसौ चतुर्दशीपञ्चदशरूपौ प्रतीत्य चैत्ययतिवन्दनोपवासश्च कस्य न स्यादनुमतं ? परं सूत्रेण निशीथव्यवहारादिना पूर्वोक्तपकारेण न संवदतीति ॥५४।।
अथ साधूनां पाक्षिकप्रतिक्रमणविधि चतुर्दश्यां निश्चित्य श्राद्धा

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68