Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
४८
आवश्यक-सप्ततिः गोचरचर्या भिग्रहाणां संसृष्टासं सृष्टादिपिण्डेषणानां त्वाऽऽचारे क्रमेणैव प्रतिपादनात् । कुत एतत ? कुत्रचित् सूत्राणां विचित्रभावादिति । यथोक्तं
देसगहणे बीएहिं सूइया मूलमाइणो सव्वे । कोहाइ अणिग्गहिया सिंचंति भवं निरवसेणं (सं) ॥१॥ सत्थपरिण्णा उक्कम गोयरपिंडेसणा कमेणं तु । जं पिय उक्कमकरणं तंपिऽभिणधम्मबोइट्ठा ॥२॥
तस्मादत्र देशग्रहणन्यायात व्याप्त्या पञ्चदश्यां पौषधे सिद्ध तत् प्रतिक्रमणममावास्यायां स्यादित्यत्राहु:-'पचदसित्ति । पञ्चदश्यों यदि नाम पौषधः स्यात् कथं नु पक्षप्रतिक्रमण नैव स्यादित्यर्थः । तत्प्रतिक्रमणस्य पौषधेन सह प्रतिबन्धभावात् । उपवासालोचनादिभिः सहैव तस्य प्रतिबन्धात् । अत एवाहुः-'तमुवासेण'ति । तदिति पक्षप्रतिक्रमणमुपवासे नोपलक्षणत्वादालोचनादिभिश्च कृतैरेव कर्त्तव्यम् । स चोपवासश्चतुर्दशीमुल्लध्य न युक्तस्तस्यामेवोक्तप्रकारेण भावात् । आलोचनादीनामपि तत्रैव समर्थितत्वादिति । ___यद्यपि-पोसह दुहओ पक्ख एगगइ न हायए' इत्युत्तराध्ययनवचनात् प्रतिक्रमणं भणितं । तदप्ययुक्तं-एतद्वयाख्याने 'लितेतरयोश्चतुर्दशीपौर्णमास्यादितिथिषु' इति । एतस्मिन् तत् प्रतिक्रमणाभणनात् पौषधस्य तु तत्प्रतिकमणाज्ञापकत्वादित्युक्तमिति । मूलव्याख्यानं तु किलैवमत्र श्रयते । पराभिप्रायव्यक्तीकरणाय सामान्येन तावद् गाथाद्वयमाहुः- 'अहमि' त्ति । 'कत्थइ' त्ति । अष्ठम्यादि तिथिगतवैचिव्येण यः श्रावकाणां पौषधः सूत्रे श्रयते स सूत्राणां वैचित्र्याद् देश. ग्रहणन्यायेन सर्वसूत्रेषु तिथित्रयव्याप्त्या पौषधग्रहांसद्धे न सूत्राणां परस्परविरुद्धत्वदोषावह इति भावः ।
नन्वेवमुक्तन्यायात सर्वत्र पञ्चदश्यां पौषधग्रहणे सिद्ध तदाक्षिप्तं पाक्षिकप्रतिक्रमणमपि तस्यां स्यादिति पराशङ्कां चेतसि निधायो

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68