Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
विद्यापरिपाटिदानसमय:
३७ धकारस्यैवकारार्थत्वात् । एतदेव विशेषयन्ति-पक्खस्स'त्ति ! पक्षस्य मध्यमष्टमी मासस्य मध्यं पाक्षिकमेव मुणितव्यं 'चाल्दसिग्गहो होइ' इत्युत्तरगाथासूत्रे नियन्त्रितचतुर्दशीरूपम् । तथा एतत्सूत्रचूर्णावपि पाक्षिकं चतुर्दशी भणिता।।
अत्र पुनः पूज्योक्तैव काचिद् व्याख्या विशेषावबोधार्थ लिख्यते । यथा-आयरिय उवज्झाए णं एगरायं वा दुरायं वा तिरायं गणाओ वीसुवसमाणे नाइक्कमइ इति व्यवहारसूत्रम् । अथाऽस्य श्रीभद्रबाहुस्वामिविरचितमेव भाष्यं-विज्जाणं परिवाडी' गाहा-पूर्वोक्ता । 'पक्खस्स अट्ठभी खलु मासस्स य पक्खिों मुणेयव्वं ।
अण्णंपि होइ पव्वं उवराओ चंदसूराणं ॥२॥ चाउसिग्गहो होइ कोइ बहवा वि सोलसिग्गहणं । वत्तं तु अणज्जते होइ दुरायं तिराय वा ।।३।।
अथाऽस्य गाथात्रयस्य तदक्षरैव चूर्णि:- विजाणं परिवाडी' त्यादि गाथा कण्ठ्या । पक्खस्से' त्यादि । व्याख्या-पक्खपवस्स मज्झ भट्टमी बहुलाइया मास त्ति काउं, मासस्स मज्झ पक्खिों , किण्हपक्खचड़द्दसीए विज्जाण साहणोवयारो । सेसं कंठ । आह चयद्येवम् एकरात्रग्रहणं कर्त्तव्यम् । किं द्विरात्रिरात्रग्रहणेनेति १ उच्यते-'चाउसि गाहो होइ कोइ' इत्यादि कण्ठ्यम् । अयमस्या गाथाया भावार्थः-किलेह सूत्रे एकरात्र द्विरात्रं त्रिरात्रं वा गणात् पृथगाश्रये आचार्य उपाध्यायो वा एकाकी विद्यायाः पठार्थ पर्वदिनेषु वसन् माज्ञा नातिक्रामतीत्युक्तमास्ते । तन्नैकरात्रं वासस्तावद्युज्यते । पर्वदिनानामष्टमीचतुर्दशी उपरागरूपाणं परस्परं व्यवधानेन भावात् । यः पुनराित्र त्रिरात्रं वा वासः सूत्र उपदिष्टः स कथं युज्यते ? नैरन्तर्येण पर्वद्वयस्य त्रयस्य वाऽभावादिति परेण प्रेरिते भगवान् भद्रबाहुस्वाम्याह-'चाउद्दसिग्गहो होइ' इत्यादि । चतुर्दश्यां पूर्व

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68