Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
चतुर्दशी पाक्षिकयो र कार्थत्वम
"पक्खिय चउमासाइसु नियमेणालोयणं मुणी देज्जा । गिजिभिग्गहे पुण पुव्वगद्दिए निवेइत्ता" ॥ "काले दड्ढतिही तहा अमावसा अट्टमी य नवमी य । छट्ठी य च उत्थी बारसी य दोहंपि पक्खाण" मिति ॥
३१
तस्मादमावास्यायामालोचनाप्रतिषेधात पाक्षिकेऽवश्यं तद्दातव्यत्वभणनान्न सम्भवत्येव पञ्चदश्यां पाक्षिकमिति । न च चतुर्थ्यामप्यालोचनायाः प्रतिषिद्धत्वात् सम्प्रति क्रियमाणपर्युषण पर्वण्यप्यालोचनादानाऽसम्भव इति वाच्यम्। चतुर्थीप्रतिषेधस्य तदितरचतुर्थीदिनेषु सावकाशत्वात् । श्रमावास्यायास्तु युष्मदभिप्रायेण पाक्षिकपर्वाऽव्याप्ताया: सम्भवाभावात् तत् प्रतिषेधक (का) नामसावकाशः स्यादिति । न चास्वाध्यायायिवेऽपि पाक्षिकसूत्रभणनवत् प्रतिषिद्धदिनेऽप्यवश्यं पर्वालोचना दातव्या । अनियताऽऽलोचनायां पुनर. मावास्याप्रतिषेधश्चरितार्थो भविष्यतीति वाच्यम्। पाक्षिकानुष्ठानानां पूर्वमेव चतुर्दश्यां व्यवस्थापितत्वात् । पक्षान्तेऽवश्यदातव्यत्वेनालोचनायां अनियतत्वस्यैवासम्भवाच्च ||३६||
तम्हा चउदसी पक्खियं च वीसुं न पव्वदुगमेयं । सामन्न पक्खि माइट्ठ पक्खसंधी ||४० ॥
-
अथ युक्तिजाल कीलिकानिकरेण चतुर्दश्यां पाक्षि शब्द नियत्र्योपसंहरन्ति दूषणान्तरं चोपचिरन्ति -
व्याख्या - तस्माच्चतुर्दशी पाक्षिकं च न विश्वक पर्वद्वयमेत् । यदि ह्येतत् पृथक् पर्वद्वयं स्यात्तदा युगपदव्यागमेऽनयोः कुत्रचिद् भणनं स्यात्, न चोपलभ्यते । तथाहि - 'अट्ठमि च उसी सव्वाणि चेइयाणि बंदियव्वाणि' इत्यावश्यकचूर्णि: । 'मट्ठमि - चउदसीसु Bववासकरण' मिति पाक्षिकचूर्णि: । 'अट्ठमिपक्खिए मुत्तुमिति
त्थछट्ठमकरणे भट्ठमिए पक्खच उमासव रिसेसु' इति व्यवहार

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68