Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
भाद्रपदसितप्रतिपदिने पर्युषणाष्टमोत्तर पारणम
२३
पद्यन्यत्र विहरन्तीत्येतदेव सहृदयहृदयसंवेद्यमिति । न च चतुर्मासकवन्मासकल्पेऽपि पौर्णमास्यां तपः प्रतिक्रमणं च कृत्वा प्रतिपद्य - वान्यत्र विहृत्य पारणकं करिष्यन्तीति वाच्यम् । पाक्षिकप्रतिक्रमणानन्तरमन्यत्र विहृत्य प्रतिपदि पारणकस्य क्वचिदत्यागमेऽनुपलम्भात्, पौर्णमास्या पारणकस्य विहारस्य च 'कल्ला' पक्खसंधीए विहरिस्ती' त्यादौ समरादित्यालाप के स्पष्ट निर्दिष्टत्वाच्च । तस्माद् भ्रान्तिरियं यदुत चतुर्मासकल्पाभिप्रायात् पाक्षिक प्रतिक्रमणप्रविष्ठेति ।
अथ दूषणान्तरं गाथाद्वयेन प्रस्तावयन्ति
तह पज्जुसवण - अट्टम - उत्तर पार गगमित्तभणणाउ । भद्दवसेय - पडिवयदिवसंमि निसीह चुन्नीए || २५॥ नज पक्खुवासो पंचदसीए न अत्थि साहूणं । कहमन्नहा घडेजा तहियं तम्मित्तनिद्द ेसो ? ||२६||
व्याख्या--तयेति दूषणान्तरोपक्रमे । भाद्रपदश्वेतप्रतिपत्रि से निशीथ चूर्णौ पर्युषण ऽष्टमोत्तर पारण क्रमात्र भणनात् ज्ञायते पञ्चदश्यां पक्षोपवासो नास्ति साधूनाम् । त्रिपर्यये बाधकमाहुः—'कद्दमन्नह'त्ति । कथमन्यथा घटेत तस्यां प्रतिपदि तन्मात्रनिर्देश:उत्तरपारणक्रमात्र भणनं । युष्मदभिप्रायेण हि पञ्चदश्यां पाक्षिकोपवासे सति पारणकस्यापि सम्भवात् तद्भणनमिति स्यात् तस्यां, न त्वेकस्यैव भणनमिति । तथा च निशीथचूर्णिः - रन्ना अंतेरिया भणिया तुभे अमावसाए उववासं काउं सव्वखज्जभुजविहीहिं साहुत्तरवारणए पडिलाहित्ता पारेह पब्जोसवणाए श्रहमति काउं पडिवयाए उत्तरवारणयं भवइ । तं च लोगस्स कहियं । तभो पभिइ मरहट्ठविसए समणपूयमो नाम छणो पवत्तोत्ति । यत्रत्रामावास्यायामन्तःपुरस्योपवासकरणं तन्नंदीश्वर चैत्याराधनार्थमिति वक्ष्यन्ति ।।२५-२६ ।
---

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68