Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 39
________________ २८ आवश्यक - सप्ततिः स्थविरा:, स्वेन सह समागताः साध्वीराकार्यं पूर्वस्थितैकोपाश्रयसाध्वीनां स्वरूपं पृच्छन्ति । 'ताओ पुच्छियाओ इमं परिकहिंति । जा जत्तो गया सा पडिगया न चेव आलोपइ देसियराइयपक्खियाइसु वा नत्थि आलोयणा । सच्छंदाओ आयरियउवज्झायवयणेणं न ठंति । सच्छंदं पवियरंति । त्रिंटलगाणि य परंजंति । गिलाणीए न पतिपति । पाहुणियाण य वच्छल्ल न करिंति' इत्यादि । तथाSsलोचनादानार्थमप्यायान्ति । यतः किल श्रीमदार्यरक्षितात् परतो निर्ग्रन्थ्यो निर्ग्रन्थीनामेत्र पार्श्वे आलोचनां ददुः । तदारतस्तु श्रमणानामेव सकाशे तां ददन्ते । ततस्तदर्थमपि वसतावागमनं चशब्द सूचितं मन्तव्यम् । एतदुक्तं भवति-नियतपर्वचतुष्टयवाचनाSsलोचनादिविशिष्ट प्रयोजनमन्तरेण यतिवसतौ गच्छन्त्योऽकालवारिण्य इति । यच्चात्र- 'कत्थइ देसग्गण' मितिवचनात् । 'पत्थअट्ठमिगणाउ चा उदसिगहणमत्रि न विरुज्झइ' बहुषु ग्रन्थेषु द्वयोपि साहचर्योपलम्भादिति केचिदतत्त्वज्ञाः प्रतिजानते । तन्न सिद्धान्तानुकूलं यतो यद्युपलक्षणव्याख्यानाच्चतुर्दश्यां यतिवन्दनं स्यात्तदा ववन्दने तस्यां प्रायश्चित्तमपि 'अट्ठमिपक्खच उमासवरि से सु'त्ति सूत्रे प्रतिपादितं स्यात् । न चात्रापि सूत्रे उपलक्षणत्वादष्टमीप्रायश्चित्तमेव चतुर्दश्यां भविष्यतीति वाच्यम् । चूर्णिकृता तथा व्याख्यानाकरणात् । तथापि स्वच्छन्दतया तत्परिकल्पनेऽतिप्रसङ्गः स्यादिति । यश्चात्र परैरित्थं विरोध उद्भाव्यते । यदुत-आर्यकालिकाचार्यात् परतो यथावस्थित एवैतस्मिन् श्लोके पञ्चदश्येव पाक्षिकशब्द वाच्येत्युच्यते तदारतस्तु चतुर्दश्येवेति स्पष्टो विरोधः । सोऽव्ययुक्तः । यतस्तवरतोऽपि चतुर्दश्येव पाक्षिकशब्दवाच्येति । कथं तद्दि'एवं पिपज्जुसवणे' त्यादि प्रागुक्तगाथायामार्यकालिकाचार्यविहितत्वेन चतुर्दशी पाक्षिकशब्दवाच्या व्यवस्थापितेति । तदतीवासङ्गतम् । यतोऽभ्युपगमवादेन तदभिहितं न पुनर्व्यवस्थित सिद्धान्तेनेति नास्ति विरोधबोधगन्धोऽपीति ||३५||

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68