Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
अनागतदिन चतुष्वेन कल्पस्य वर्षणम्
२१
दिवसे तेन भगवता कालिकाचार्येण विहितेति कृत्वा यथा प्रमाणंप्रमिति प्राप्नोति निर्विवादतया सम्मता, किं न तथा पक्षप्रतिक्रमणं चतुर्दश्यां १ । तत्प्राप्त' उभयोस्तन्निरूपितत्वेन समानेऽपि मात्सर्यचर्या - निबन्धन: पक्षपात एकत्रान्यत्र विद्वेषः | २०||
अथाभ्युपगमापेक्षया तन्निरूपितत्वमेव चतुर्दश्याः समर्थयन्तिनू चउद्दसीए तमासि तस्सन्नहा कह घडेजा ? | पोसाकप्पस वहां दिचउक्केणं ॥ २१॥
"
व्याख्या- नूनं निश्चितं स्वयं प्ररूपितचतुर्थी सांवत्सरिकपर्व वर्षादनन्तरं चतुर्दश्यां तदिति पाक्षिकं तस्य श्रीकालिकाचार्यस्यासीदिति योगः । कथमन्यथा पर्युषणाकल्पस्य कर्षणमनागतदिन चतुष्केन तस्य भगवतो घटते ? तस्मात्तस्य पर्युषणाल्पकर्षणान्यथानुपपत्त्या तेनैव चतुर्दश्यां तत्प्ररूपितमिति मन्तव्यमिति । यच्चात्र कैश्चिदुच्यते'नेदं भगवता चतुर्दश्यां प्ररूपितं किन्तु तद्गुणेष्र्यालुनाऽन्येन केन - चिदित्यादि । तदप्यनौचित्यध्याहृतं यतो यदि मस्सरिणा शटेनाचरितं स्यादिदं कथं सर्वसम्मतं स्यात् ? । तथाहि--नेदं शठप्ररूपितं समस्ताचार्य परम्परासम्मतत्वात् यत्त नैवं न तदेवं यथा भवत्प्ररूपितं श्राद्धप्रतिष्ठादि । तस्मात्पूर्वोक्तयुक्ते ज्ञायते भगवतैव प्ररूपितम् । अन्येन वा तत्तुल्यगुणेन सर्वसम्मतेनेति मिथ्यैत्र तत्र विद्वेष इति ।।
अथ चतुर्मासकानुसारिणीं पराऽऽशङ्कामुत्थापयन्तिच उमासगपडिकमणं सुत्ते श्रह पुरिणमाइ निदिट्ठ ं । तो तयणुसार पक्खिपि जुज्जेज पक्खते ||२२||
व्याख्या - चतुर्मासिकप्रतिक्रमणं सूत्रे पूर्णिमायां यतो निर्दिष्ट ततस्तद्वदेव पाक्षिक प्रतिक्रमणमपि पञ्चदश्यामेव युवतं स्यादिति पराभिप्रायः । चतुर्मासक प्ररूपणासूत्रं त्विदं कृत्तियपुणिमाए
6

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68