Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 30
________________ पर्युषणाविधिः १९ यच्चात्र केचिद् 'मुणियसमयसम्भाषा-इत्याक्रोशपुरस्सरमागमप्रन्थानामभिधानाभिधानमात्रेण मुग्धव्यामोहनाय विरोधमारोपयन्तः प्रतिपादयन्ति-'जइ चेइयसाहुबंदणतवा उ पक्खिधं चउद्दसीए भाणिजह तो अन्नो कोइ मट्टमीए पंचमो९ वा भणिस्सई' इत्यादि । तदतीव-व्यामोह-व्याकुलितचेतसा तेषां प्रलपितम् । अष्टम्यां पाक्षिकप्रतिक्रमणसहचरालोचनायाः प्रतिषिद्धत्वात् । पञ्चम्याः पुनरुभयपक्षाव्यापकत्वादन्यतिथीनां तु रूढपर्वत्वाभावात् । यच्च चतुर्दश्यां पाक्षिके क्रियमाणे चातुर्मासिवे ऽमम्-उस्सग्गेण पुणासाढसुद्धरसमीए ठियाणमासाढीपुन्निमाए चेव पज्जोसवेअव्वमिति वचनाद्-उत्कृष्टपर्युषणायां चाषाढ पूर्णमासीदिने क्रियमाणायां चतुर्दशमं प्रसञ्जयन्ति । तदप्यागमरहस्यानभिज्ञप्रलपितम् । चतुर्मासकसम्पन्धिचतुर्दश्यास्तद्भिन्नपर्वत्वेनाराधनाश्रवणादिति । पयुषणा त्वाषाढपूर्णिमायाँ नियमग्रहणमात्रं गृहस्थज्ञातीकरणं च । न पुनस्तपः प्रतिक्रमणकरण । तस्य भाद्रपदसितपञ्चम्यां शाश्वतपर्वण्येवाभिधानादिति ॥१६।। सम्प्रति पयुषणाकल्पाकर्षणानुसारेण गाथाद्वयेन प्रस्तुतेऽभ्युचयमाहुः पाअोसियकालेणं अणागएसु व चउसु दिवसेसु । पजोसवणाकप्पम्मि कडिए सव्वसाहूणं ॥१७॥ कजइ पजोसवणा निसीहमाईसु जं फुडं भणियं । तं कह पंचदसीए जुञ्ज जा पक्खपडिकमणे १ ॥१८॥ व्याख्या-प्रादोषिककालेनाऽनागतेष्वेव चतुषु दिवसेषु पयुषणाकल्पे कर्षिते सति सर्वसाधूनां किमित्याह-क्रियते पर्युषणेति पर्युषणाविधिरतः परमिदं कल्प्यमिदमकल्प्यमित्येवं रूपो विधीयते इति निशीथे कल्पादिषु च स्फुटं भणितं तत्कथं पञ्चदश्यां पाक्षिकप्रतिक्रमणे क्रियमाणे युज्येत ?, पञ्चदश्यां पाक्षिके अनध्यायसम्भवेन

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68