Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 341
________________ ३२८ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ दीर्घः - हे हरी ! हे हरि ! । हे गुरू ! हे गुरु ! । जाइविसुद्धेण पहू ! । हे प्रभो इत्यर्थः । एवं दोण्णि पहू ! जिअलोए । पक्षे - हे पहु ! । एषु प्राप्ते विकल्पः । इह त्वप्राप्ते - हे गोअमा ! हे गोअम ! । हे कासवा ! हे कासव ! | रे रे चप्पलया ! । रे रे निग्घिणया ! ॥ [डो दी? वा] डो प्रथमा सि । दीर्घ प्रथमा सि । वा प्रथमा सि । 'अत: सेर्डोः' (३२) इत्यनेन नित्यं सिस्थाने डो भवति स विकल्पेन स्यात् । यस्तु 'अक्लीबे सौ' (३.१९) इत्यनेन इकारोकारयोर्दीर्घः प्रोक्तः सोपि वा भवति । 'अक्लीबे सौ' (३।१९) इत्यनेन अकारस्य दीर्घनिषेधेऽनेन अकारस्यापि दी? वा भवति ॥ [हे देवो ! हे देव !] हे देव ! (२) । आम० सि । अनेन वा सि० → डो० → ओ० इति । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) वो ! हे देवो ! । पक्षे - 'अन्त्यव्य०' (१।११) स्लुक् हे देव ! । [हे खमासमणो ! हे खमासमण !] हे क्षमाश्रमण ! (२) । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्ष० → ख० । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) श० → स० । आम० सि । अनेन वा सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) णो ! हे खमासमणो ! । पक्षे - 'अन्त्यव्यः' (१२११) स्लुक् हे खमासमण !। [हे अज्जो ! हे अज्ज !] हे आर्य ! (२) । 'हस्वः संयोगे' (१८४) आ० → अ० । 'द्य-यय-या जः' (२२४) र्य० → ज० । 'अनादौ०' (२।८९) द्वित्वं - ज्ज० । आम० सि । अनेन वा सि० → डो० → ओ० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) ज्जो ! हे अज्जो ! । पक्षे- 'अन्त्यव्यः' (१।११) स्लुक् हे अज्ज !। [हे हरी ! हे हरि !] हे हरि ! (२) । आम० सि । अनेन वा इकारो दीर्घः - हे हरी !। पक्षे - 'अन्त्यव्यः' (१।११) स्लु क् हे हरि !। [हे गुरू ! हे गुरु !] हे गुरु ! (२) । आम० सि । अनेन वा उकारो दीर्घः - हे गुरू ! । पक्षे - 'अन्त्यव्य०' (१।११) स्लुक् हे गुरु !। [जाइविसुद्धेण पहू !] जातिविशुद्ध । तृतीया टा । 'क-ग-च-ज०' (१।१७७) लुक् । 'श-षोः सः' (१२२६०) शु० → सु० । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एकारः - द्ध० →द्धे० जाइविसुद्धेण । हे प्रभु !। आम० सि । 'सर्वत्र ल-व०' (२१७९) लुक् । 'ख-घ-थ०' (१११८७) भु० → हु० । अनेन वा दीर्घः - हु० → हू० । 'अन्त्यव्य०' (१।११) स्लुक् हे पहू !। [दोण्णि पहू ! जिअलोए] द्वि । प्रथमा औ । 'द्विवचनस्य बहुवचनम्' (३।१३०) औस्थाने जस् । 'दुवे दोण्णि वेण्णि च जस्-शसा' (३।१२०) द्विस्थाने दोण्णि० जसा सह । दोण्णि । प्रभु । आम० सि । 'सर्वत्र ल-व०' (२७९) लुक् । 'ख-घ-थ-ध०' (१।१८७) भस्य हः । अनेन वा दीर्घः - हु० → हू० हे पहू !। जीवलोक । सप्तमी ङि । 'पानीयादिष्वित्' (१।१०१) जी० → जि० । 'क-ग-च-ज०' (१।१७७) व्लुक् - क्लुक् च । 'डे-म्मि छ:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) ए जिअलोए। पक्षे -

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442