Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 402
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३८९ [तादर्थ्यडेर्वा ] तादर्थ्यङि षष्ठी ङस् । वा प्रथमा सि । [ देवस्स देवाय ] देव । चतुर्थी डे। अनेन वा डेस्थाने षष्ठी ङस् । 'डसः स्सः' (३।१०) ङस्० → स्स० देवस्स। पक्षे-देव । चतुर्थी छे । 'डे-ङस्योर्या०' (१।४।६) ० → य० । 'अत आः स्यादौ०' (१।४।१) व० → वा० देवाय । [ देवाण] देव । षष्ठी आम् । 'टा-आमोर्णः' (३।६) आम्० → ण० । 'जस्-शस्-ङसि-त्तो०' (३।१२) दीर्घः देवाण ॥१३२॥ वधाड्डाइश्च वा ॥८।३।१३३ ॥ वधशब्दात्परस्य तादर्थ्यङेडिद् आइ षष्ठी च वा भवति ॥ वहाइ । वहस्स । वहाय । वधार्थमित्यर्थः ॥ [वधाड्डाइश्च वा] वध पञ्चमी उसि । डाइ प्रथमा सि । च प्रथमा सि । वा प्रथमा सि । [वहाइ ] वध । चतुर्थी उ । वधार्थं = वधाय । अनेन डे० → डाइ० → आइ० । 'डित्यन्त्यस्वरादेः' (२२१२११४) अलुक् । 'लोकात्' (१।१।३) वधाइ । 'ख-घ-थ-ध-भाम्' (१।१८७) धा० → हा० वहाइ । [वहस्स] वध । चतुर्थी । अनेन चतुर्थीस्थाने षष्ठी । 'ङसः स्सः' (३।१०) ङस्० → स्स० । 'ख-घ-थ०' (१।१८७) ध० → ह० वहस्स । [वहाय ] वध । चतुर्थी ङे । 'डे-ङस्योर्याऽऽतौ' (१।४।६) उ० → य० । 'अत आः स्यादौ०' (१।४।१) ध० → धा० । 'ख-घ-थ-ध-भाम्' (१।१८७) धा० → हा. वहाय ॥१३३।। क्वचिद् द्वितीयादेः ॥८॥३॥१३४ ॥ द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीाधरस्स वन्दे । तिस्सा मुहस्स भरिमो । अत्र द्वितीयायाः षष्ठी ॥ धणस्स लेद्धो । धनेन लब्ध इत्यर्थः ॥ चिरस्स मुक्का । चिरेण मुक्तेत्यर्थः ॥ तेसिमेअमणाइण्णं । तैरेतदनाचरितम् ॥ अत्र तृतीयायाः ॥ चोरस्स बीहइ । चौराद् बिभेतीत्यर्थः ॥ इअराई जाण लहुअक्खराइं पायन्तिमिल्लसहिआण । पादान्तेन सहितेभ्य इतराणीति । अत्र पञ्चम्याः ॥ पिट्ठीए केसभारो । अत्र सप्तम्याः ॥ [क्वचिद् द्वितीयादेः ] क्वचित् सप्तमी ङि । द्वितीयादि षष्ठी ङस् । [सीमाधरस्स वन्दे ] सीमाधर । द्वितीया अम् । अनेन अमस्थाने ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० सीमाधरस्स । १. तमतिमिरपडल-विद्धंसणस्स सुरगणनरिंदमहियस्स । सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥ [आवश्यकसूत्रे पुक्खरवरदीवड्डे सूत्रे गा० २] तमस्तिमिरपटलविध्वंसनं सुरगणनरेन्द्रमहितम् । सीमाधरं वन्दे प्रस्फोटितमोहजालम् ॥ २. B. C. लुद्धो ।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442