Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
४२२
व्युत्पत्तिदीपिकाभिधान-ढुण्डिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[हसह] हस् । पञ्चमी त - सप्तमी यात वा । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१११३) हसत-हसयात । अनेन त० - यात० → ह० हसह ।
[हसामो] हस् । पञ्चमी आम-सप्तमी याम वा । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) हसामहसयाम। अनेन आम०-याम० → मो० । 'इच्च मो०' (४।१५५) आत्त्वम् हसामो ।
[तुवरन्तु ] 'जित्वरिष् सम्भ्रमे' (१०१०) त्वर् । पञ्चमी अन्ताम् - सप्तमी ईरन् वा । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) त्वरन्ताम् - त्वरेरन् । 'त्वरस्तुवर-जअडौ' (४।१७०) त्वर० → तुवर० । अनेन अन्ताम् - ईरन्। → न्तु० तुवरन्तु ।
[तुवरह] त्वर् । पञ्चमी ध्वम् - सप्तमी ईध्वम् वा । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) त्वरध्वम् - त्वरेध्वम् । 'त्वरस्तुवर०' (४।१७०) त्वर० → तुवर० । अनेन ध्वम् - ईध्वम्० → ह० तुवरह । __ [तुवरामो ] त्वर् । पञ्चमी आमहैव्- सप्तमी ईमहि वा । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) त्वरामहैत्वरेमहि । 'त्वरस्तुवर०' (४/१७०) त्वर० → तुवर० । अनेन आमहै-ईमहि० → मो० । 'इच्च मो०' (३।१५५) आत्त्वम तुवरामो ॥१७६।।
वर्तमाना-भविष्यन्त्योश्च ज्ज-ज्जा वा ॥८।३।१७७ ॥ वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज्ज-ज्जा इत्येतावादेशौ वा भवतः ॥ पक्षे - यथाप्राप्तम् ॥
वर्तमाना-हसेज्ज हसेज्जा । पढेज्ज पढेज्जा । सुणेज्ज सुणेज्जा ॥ पक्षे-हसइ । पढइ । सुणइ ॥ भविष्यन्ती-पढेज्ज पढेज्जा ॥ पक्षे - पढिहिइ ॥ विध्यादिषु - हसेज्ज हसेज्जा । हसतु हसेद्वा इत्यर्थः ॥ पक्षे- हसउ ॥ एवं सर्वत्रापि । यथा तृतीयत्रिके अइवाएज्जा 'अइवायाविज्जा । न समणुजाणामि न समणुजाणेज्जा ॥ .
__ अन्ये तु अन्यासामपीच्छन्ति-'होज्ज ॥ भवति भवेत् भवतु अभवत् अभूत् बभूव भूयात् भविता भविष्यति अभविष्यद्वा इत्यर्थः ॥
[वर्तमाना-भविष्यन्त्योश्च ज्ज-ज्जा वा] वर्तमाना-भविष्यन्ती षष्ठी ओस् । च प्रथमा सि । ज्ज-ज्जा प्रथमा औ। 'अव्ययस्य' (३।२।७) औलुप् । वा प्रथमा सि ।
[हसेज्ज हसेज्जा ] 'हसे हसने' (५४५) हस् (२) । वर्त० तिव् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० । अनेन वा इ० → ज्ज-ज्जा० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'ज्जा-ज्जे' (३।१५९) स० → से हसेज्ज हसेज्जा ।
[पढेज्ज पढेज्जा] 'पठ व्यक्तायां वाचि' (२१३) पठ् (२) । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । अनेन वा इ० → ज्ज-ज्जा० । 'ठो ढः' (१।१९९) ठ० → ढ० । 'व्यञ्जना०' (४।२३९) अत् । 'ज्जा-ज्जे' (३।१५९) ढ० →ढे० पढेज्ज पढेज्जा ।
[सुणेज्ज सुणेज्जा ] 'श्रृंट् श्रवणे' (१२९६) श्रु (२) । वर्त० तिव् । 'बहुषु न्तु-ह-मो' (३।१७६) तिव्० → न्तु० । अनेन न्तु० → ज्ज-ज्जा० । 'सर्वत्र ल-व०' (२६७९) लुक् । 'श-षोः सः' (१२२६०) शु० → सु० । 'चि-जि-श्रु-हुस्तु-लू-पू-धूगां णो हुस्वश्च' (४।२४१) ण आगमः । 'ज्जा-ज्जे' (३।१५९) ण० →णे० सुणेज्ज सुणेज्जा । पक्षे
१. L. अइवायावेज्जा । २. c. होज्ज होज्जा ।
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442