Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
अष्टमाध्यायस्य तृतीयः पादः ॥
४२१
[पेच्छसु] दृश् । पञ्चमी हि । 'दृशो निअच्छ-पेच्छा-ऽवयच्छा०' (४।१८१) दृश् → पेच्छ० इति । अनेन हि० → सु० आदेश: पेच्छसु ।
[पेच्छामु] दृश् । पञ्चमी आनिव् । 'दृशो निअच्छ-पेच्छा-ऽवयच्छा०' (४।१८१) दृश् → पेच्छ० इति । अनेन हि० → मु० आदेशः । 'इच्च मो-मु-मे वा' (३।१५५) आत्त्वम्-च्छ० → च्छा० पेच्छामु ॥१७३॥
सोहिर्वा ॥ ८।३।१७४ ॥ पूर्वसूत्रविहितस्य सो: स्थाने हिरादेशो वा भवति ॥ देहि देसु ॥ [सोहिर्वा ] सु षष्ठी ङस् । हि प्रथमा सि । वा प्रथमा सि ।
[ देहि देसु] 'डुदांग्क् दाने' (११३८) दा (२) । पञ्चमी हि । 'दु-सु-मु विध्यादि०' (३।१७३) हि० → सु० । अनेन वा सु० → हि० । 'स्वराणां स्वराः' (४।२३८) एत्त्वम् - देहि देसु ॥१७४।।
अत इज्जस्विज्जहीज्जे-लुको वा ॥ ८।३।१७५ ॥ अकारात्परस्य सोः इज्जसु-इज्जहि-इज्जे इत्येते लुक् च आदेशा वा भवन्ति ॥ हसेज्जसु । हसेज्जहि । हसेज्जे । हस । पक्षे-हससु । अत इति किम् ? होसु । ठाहि ॥ [अत इज्जस्विज्जहीज्जे-लुको वा] अत् पञ्चमी ङसि । इज्जसु-इज्जहि-इज्जे-लुक् प्रथमा जस् । वा प्रथमा सि।
[हसेज्जसु हसेज्जहि हसेज्जे हस ] 'हसे हसने' (५४५) हस् (४) । पञ्चमी हि अथवा सप्तमी यास् । 'दु-सु-मु विध्यादि०' (३।१७३) हि०-यास्० → सु० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हससु । अनेन वा सु०
→ इज्जसु-इज्जहि-इज्जे-लुक् च । 'अवर्णस्येवर्णा०' (१।२।६) ए० हसेज्जसु-हसेज्जहि-हसेज्जे-हस । पक्षे - ___ [हससु] हस् । पञ्चमी हि । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) हसहि । 'दु-सु-मु०' (३।१७३) हि० → सु० हससु ।
[होसु] 'भू सत्तायाम्' (१) भू । पञ्चमी हि । 'भुवेर्हो हुव-हवाः' (४६०) भू० → हो० । 'दु-सु-मु विध्यादि०' (३।१७३) हि० → सु० होसु ।
[ठाहि] स्था । पञ्चमी हि । 'स्थष्ठा०' (४।१६) स्था० → ठा० । 'दु-सु-मु विध्यादि०' (३।१७३) हि० → सु० । 'सोहिर्वा' (३।१७४) सु० → हि० ठाहि ॥१७५॥
बहुषु न्तु-ह-मो ॥८॥३॥१७६ ॥ विध्यादिषूत्पन्नानां बहुष्वर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु-ह-मो इत्येते आदेशा भवन्ति ।।
न्तु-हसन्तु हसन्तु हसेयुर्वा || ह-हसह हसत हसेत वा ॥ मो- हसामो हसाम हसेम वा ॥ एवं - तुवरन्तु तुवरह तुवरामो ॥
[बहुषु न्तु-ह-मो] बहु सप्तमी सुप् । न्तु-ह-मो प्रथमा जस् ।
[हसन्तु] 'हसे हसने' (५४५) हस् । पञ्चमी अन्तु-सप्तमी युस् वा । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसन्तु-हसयुस् । अनेन अन्तु० - युस्० → न्तु० हसन्तु ।
Loading... Page Navigation 1 ... 432 433 434 435 436 437 438 439 440 441 442