Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 438
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ४२५ 'हरिणट्ठाणे हरिणङ्क ! जइ सि हरिणाहिवं निवेसन्तो । न सहन्तो च्चिअ तो राहुपरिहवं से जियन्तस्स ॥ [न्त-माणौ ] न्त-माण प्रथमा औ । [ होन्तो] 'भू सत्तायाम्' (१) भू । क्रियातिपत्ति: स्यत् । अनेन स्यत्० → न्त० । 'अत: से?:' (३२) सि० → डो० → ओ० । 'भुवेर्हो हुव-हवा:' (४६०) भू० → हो० होन्तो । [होमाणो] भू । क्रियातिपत्तिः स्यत् । अनेन स्यत्० → माण० । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'भुवेर्हो-हुव-हवाः' (४।६०) भू० → हो० होमाणो । [हरिणट्ठाणे हरिणङ्क !...............] अस्यार्थः - हे हरिणाङ्क ! हे चन्द्र ! यदि त्वं हरिणस्थाने हरिणाधिपं-सिहं निवेशयिष्यत्(न्यवेशयिष्यः) तदा से तस्य - सिंहस्य जीवितो राहुपरिभवनासहिष्यः(ष्यथाः) इत्यर्थः । यदि । प्रथमा सि । 'आदेर्यो जः' (१२२४५) य० , ज० । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'अव्ययस्य' (३।२७) सिलुप् जइ। सि इत्यव्ययं त्यादयः इति सूत्रेण त्वमित्यर्थे निपात्यते सि । हरिणाधिपम् । 'ख-घ-थ-ध-भाम्' (१।१८७) धि० → हि० । 'पो वः' (१२२३१) प० → व० हरिणाहिवं । निपूर्व० 'विशंत् प्रवेशने' (१४१५) विश् । निविशन्तं(मानं) प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । क्रियातिपत्तिः स्यस् । अनेन स्यस्स्थाने न्तः । 'लघोरुपान्त्यस्य' (४।३।४) गु० वि० → वे० । 'णेरदेदावावे' (३१४९) णिग्रस्थाने अत् । 'लोकात्' (११३) निवेशन्त । 'श-षोः सः' (१।२६०) श० → स० । 'अत: से?:' (३।२) सि० → डो० → ओ० निवेसन्तो । 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सह । क्रियातिपत्तिः स्यथास् । अनेन स्यथास्थाने न्त० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) सहन्त । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० सहन्तो । [च्चिअ] 'णइ चेअ चिअ च्च अवधारणे' (२।१८४) इत्यनेन अवधारणेऽर्थे चिअ इति निपात्यते । सेवादित्वात् द्वित्वमपि च्चिअ। [तो] तद् । पञ्चमी ङसि । 'तदो डोः' (३।६७) ङसि० → डो० → ओ० इति । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१२११३) तो। [राहुपरिहवं] राहुपरिभवम् । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः राहुपरिहवं ॥१८०॥ शत्रानशः ॥ ८।३।१८१ ॥ शतृ-आनश् इत्येतयोः प्रत्येकं न्त-माण इत्येतावादेशौ भवतः ॥ शतृ-हसन्तो हसमाणो । आनश्-वेवन्तो वेवमाणो || १. गा० र० - चन्द्रप्रक्रमः - ५५२ ।

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442