Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 439
________________ ४२६ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [शत्रानशः] शत्रानश् षष्ठी ङस् । [ हसन्तो हसमाणो] 'हसे हसने' (५४५) हस् (२) । हसतीति हसन् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । अनेन अत्स्थाने न्त-माणश्च । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२१६३) हसन्त-हसमाण । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० हसन्तो हसमाणो । [वेवन्तो वेवमाणो] 'टुवेपङ् चलने' (७५४) वेप् । वेपते = वेपमानः । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० । अनेन आनश्स्थाने न्त-माणश्च । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२१३) वेपन्त-वेपमाण । 'पो वः' (१।२३१) प० → व० । प्रथमा सि । 'अत: सेझैः' (३।२) सि० → डो० → ओ० वेवन्तो वेवमाणो ॥१८१।। ई च स्त्रियाम् ॥ ८।३।१८२ ॥ स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् न्त-माणौ च भवन्ति ॥ हसई हसन्ती हसमाणी । वेवई वेवन्ती वेवमाणी ।। [ई च स्त्रियाम् ] ई प्रथमा सि । च प्रथमा सि । स्त्री सप्तमी ङि। [हसई हसन्ती हसमाणी] 'हसे हसने' (५४५) हस् (३) । 'शत्रानशा०' (५।२।२०) शतृप्र० → अत् । अनेन अत्स्थाने ई-न्त-माणश्च । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) हसई । द्वितीये - तृतीये 'प्रत्यये ङीनवा' (३।३१) ङीप्र० । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।१।३) हसन्ती-हसमाणी । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् हसई हसन्ती हसमाणी । [वेवई वेवन्ती वेवमाणी] 'टुवेपृङ् चलने' (७५४) वेप् । 'शत्रानशा०' (५।२।२०) आनश्प्र० । अनेन आनश्स्थाने ई-न्त-माणश्च । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (११३) वेपई । 'पो वः' (१।२३१) प० → व० । द्वितीयेतृतीये 'प्रत्यये ङीर्नवा' (३।३१) ङीप्र० । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।१।३) वेवन्ती वेवमाणी । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् वेवई वेवन्ती वेवमाणी ॥१८२॥ इति श्रीबृहत्तपागच्छे श्रीश्रीश्रीसौभाग्यसागरसूरिशिष्य- भुजिष्येण हर्षकुलपण्डितवचःप्राप्तप्रयोगरहस्येन उदयसौभाग्यगणिना लिखितायां हैमप्राकृतवृत्तिदण्ढिकायां व्युत्पत्तिदीपिकाभिधानायां सर्वप्रयोगविशेषव्युत्पत्तिप्रकाशिकायां तृतीयः पादः समर्थितः ॥३॥ ऊर्ध्वं स्वर्गनिकेतनादपि तले पातालमूलादपि । त्वत्कीर्तिर्धमति क्षितीश्वरमणे ! पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलैस्ते वाचंयमवृत्तयोऽपि मुनयो मौनव्रतं त्याजिताः ॥१॥ अर्हम् - हे क्षितीश्वरमणे ! ते-तव कीर्तिः स्वर्गि(ग)निकेतनात् स्वर्गात् ऊर्ध्वं पातालमूलादपि पयोधेरपि पारे परिभ्रमति, तेन कारणेन अस्याः कीर्त्या उच्चावचैश्चापलैस्ते प्रसिद्धा मुनयो मौनं व्रतं त्याजिताः । किंविशिष्टा मौ० ? वाचंयमा मौनरूपा वृत्तिर्येषां ते, किंचापलैः ? प्रमदास्वभावेषु सुलभानि तैः इति काव्यार्थः ॥छ।श्रीः।।

Loading...

Page Navigation
1 ... 437 438 439 440 441 442