Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 431
________________ ४१८ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजाम्] श्रुश्च गमिश्च रुदिश्च विदिश्च दृशिश्च मुचिश्च वचिश्च छिदिश्च भिदिश्च भुज् च = श्रुगमिरुदिविदिदृशिमुचिवचिछिदिभिदिभुज, तेषाम् = श्रुगमिरुदिविदिदृशिमुचिवचिछिदिभिदिभुजाम् । षष्ठी आम् । [सोच्छं-गच्छं-रोच्छं-वेच्छं-दच्छं-मोच्छं-वोच्छं-छेच्छं-भेच्छं-भोच्छं] सोच्छं-गच्छं-रोच्छं-वेच्छं-दच्छं-मोच्छंवोच्छं-छेच्छं-भेच्छं-भोच्छं प्रथमा जस् । [सोच्छं] 'श्रृंट् श्रवणे' (१२९६) श्रु । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३।१४१) स्यामि० → मि० । अनेन श्रुधातोमि० → सोच्छं । एवं सर्वत्र ॥१७१।। सोच्छादय इजादिषु, हिलुक् च वा ॥ ८।३।१७२ ॥ वादीनां स्थाने इजादिषु भविष्यदादेशेषु यथासंख्यं सोच्छादयो भवन्ति । ते एवाऽऽदेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः । हिलुक् च वा भवति ॥ सोच्छिइ । पक्षे- सोच्छिहिइ । एवम् -सोच्छिन्ति सोच्छिहिन्ति । सोच्छिसि सोच्छिहिसि । सोच्छित्था सोच्छिहित्था । सोच्छिह सोच्छिहिह । सोच्छिमि सोच्छिहिमि । सोच्छिस्सामि सोच्छिहामि । सोच्छिस्सं सोच्छं । सोच्छिमो सोच्छिहिमो । सोच्छिस्सामो सोच्छिहामो । सोच्छिहिस्सा सोच्छिहित्था । एवं-मु-मयोरपि । गच्छिइ गच्छिहिइ । गच्छिन्ति गच्छिहिन्ति । गच्छिसि गच्छिहिसि । गच्छित्था गच्छिहित्था । गच्छिह गच्छिहिह । गच्छिमि गच्छिहिमि । गच्छिस्सामि गच्छिहामि । गच्छिस्सं गच्छं । गच्छिमो गच्छिहिमो । गच्छिस्सामो गच्छिहामो । गच्छिहिस्सा गच्छिहित्था । एवं-मु-मयोरपि । एवं-रुदादीनामप्युदाहार्यम् ॥ [सोच्छादय इजादिषु] सोच्छादि प्रथमा जस् । इजादि सप्तमी सुप् । [हिलुक् च वा] हिलुक् प्रथमा सि । च प्रथमा सि । वा प्रथमा सि । [सोच्छिइ सोच्छिहिड़ ] 'श्रृंट् श्रवणे' (१२९६) श्रु । भविष्यन्ती स्यति । 'त्यादीनामाद्यत्रयस्या०' (३.१३९) स्यति० → इ० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । अनेन श्रु० → सोच्छ आदेश:- हिलुक् च वा । 'एच्च क्त्वातुम्-तव्यः' (३।१५७) च्छ० → च्छि० सोच्छिइ सोच्छिहिइ । [सोच्छिन्ति सोच्छिहिन्ति] श्रु । भविष्यन्ती स्यन्ति । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३।१४२) स्यन्ति० →न्तिः । अनेन श्रु० → सोच्छ० आदेशः । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । अनेन वा हिलुक् । 'एच्च क्त्वा-तुम्०' (३६१५७) च्छ० → च्छि० सोच्छिन्ति सोच्छिहिन्ति । [सोच्छिसि सोच्छिहिसि] श्रु । भविष्यन्ती स्यसि । 'द्वितीयस्य सि-से' (३।१४०) स्यसि० → सि० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । अनेन श्रु० → सोच्छ० - हिलुक् च वा । “एच्च क्त्वा-तुम्०' (३।१५७) च्छ० → च्छि० सोच्छिसि सोच्छिहिसि । [सोच्छित्था सोच्छिहित्था] श्रु । भविष्यन्ती स्यथ । 'मध्यमस्येत्था-हचौ' (३।१४३) स्यथ० → इत्था० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । अनेन श्रु० → सोच्छ० - हिलुक् च वा सोच्छित्था सोच्छिहित्था। [सोच्छिह सोच्छिहिह] श्रु । भविष्यन्ती स्यथ । 'मध्यमस्येत्था-हचौ' (३१४३) स्यथ० → ह० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । अनेन श्रु० → सोच्छ० - हिलुक् च वा । 'एच्च क्त्वा-तुम्०' (३।१५७) च्छ० → च्छि० सोच्छिह सोच्छिहिह ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442