Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 429
________________ ४१६ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [हसिस्सामो] 'हसे हसने' (५४५) हस् । भविष्यन्ती स्यामस् । 'तृतीयस्य मो०' (३।१४४) स्यामस्० → मो० । अनेन स्सा आगम: । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसस्सामो । 'इच्च मो-मु-मे वा' (३१५५) स० → सि० हसिस्सामो । [हसिहिमो] हस् । भविष्यन्ती स्यामस् । 'तृतीयस्य मो०' (३।१४४) स्यामस्० → मो० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसमो । 'इच्च मो-मु-मे वा' (३६१५५) स० → सि० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः हसिहिमो ॥१६७।। मो-मु-मानां हिस्सा-हित्था ॥ ८।३।१६८ ॥ धातोः परो भविष्यत्काले मो-मु-मानां स्थाने हिस्सा-हित्था इत्येतौ वा प्रयोक्तव्यौ ॥ होहिस्सा होहित्था । हसिहिस्सा हसिहित्था । पक्षे-होहिमो । होस्सामो । होहामो इत्यादि । [ मो-मु-मानां हिस्सा-हित्था ] मो-मु-म षष्ठी आम् । हिस्सा-हित्था प्रथमा औ । [होहिस्सा होहित्था ] 'भू सत्तायाम्' (१) भू (२) । भविष्यन्ती स्यामस् । 'तृतीयस्य मो-मु-माः' (३।१४४) स्यामस्स्थाने मो-मु अथवा म० । अनेन वा विभक्तिस्थाने हिस्सा-हित्था । 'अविति हुः' (४।६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो. होहिस्सा होहित्था । [हसिहिस्सा हसिहित्था ] 'हसे हसने' (५४५) हस् (२) । भविष्यन्ती स्यामस् । 'तृतीयस्य मो०' (३।१४४) स्यामसस्थाने मो-मु-म० । अनेन वा विभक्तिस्थाने हिस्सा-हित्था । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) हसहिस्सा हसहित्था । 'इच्च मो-मु-मे वा' (३।१५५) स० → सि० हसिहिस्सा हसिहित्था । [ होहिमो] भू । भविष्यन्ती स्यामस् । 'तृतीयस्य मो०' (३।१४४) स्यामस्० → मो० । 'अविति हुः' (४।६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो । 'भविष्यति हिरादिः' (३।१६६) हि आगमः होहिमो । [होस्सामो] भू । भविष्यन्ती स्यामस् । 'तृतीयस्य मो०' (३।१४४) स्यामस्० → मो० । 'अविति हुः' (४।६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । 'मि-मो-मु-मे स्सा-हा नवा' (३।१६७) स्सा आगमः होस्सामो। [होहामो] भू । भविष्यन्ती स्यामस् । 'तृतीयस्य मो०' (३३१४४) स्यामस्० → मो० । 'अविति हुः' (४।६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो । 'मि-मो-मु-मे स्सा-हा नवा' (३।१६७) हा आगमः होहामो ॥१६८॥ मेः स्सं ॥ ८।३।१६९ ॥ धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ॥ होस्सं । हसिस्सं । कित्तइस्सं । पक्षे - होहिमि । होस्सामि । होहामि । कित्तइहिमि ॥ [मेः स्सं] मि षष्ठी ङस् । स्स प्रथमा सि । [होस्सं ] 'भू सत्तायाम्' (१) भू । भविष्यन्ती स्यामि । 'अविति हुः' (४६ भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । अनेन वा स्यामि० → सं० होस् । [हसिस्सं ] 'हसे हसने' (५४५) हस् । भविष्यन्ती स्यामि । अनेन वा स्यामि० → स्सं० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) हसस्सं । 'एच्च क्त्वा-तुम्०' (३।१५७) इत्त्वम् हसिस्सं ।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442