Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 427
________________ ४१४ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ अब्रवीत् । 'अन्त्यव्यः' (१।११) त्लुक् । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२८९) बस्य द्वित्वम् अब्बवी ॥१६॥ व्यञ्जनादीअः ॥८॥३॥१६३ ॥ व्यञ्जनान्ताद्धातोः परस्य भूतार्थस्याऽद्यतन्यादिप्रत्ययस्य ईअ आदेशो भवति । हुवीअ । अभूत् अभवत् बभूवेत्यर्थः ॥ एवम्-अच्छीअ । आसिष्ट आस्त आसांचक्रे वा । गेण्हीअ । अग्रहीत् अगृह्णात् जग्राह वा ॥ [व्यञ्जनादीअः] व्यञ्जन पञ्चमी ङसि । ईअ प्रथमा सि । [ हुवीअ] 'भू सत्तायाम्' (१) भू । अद्यतनी दि - ह्यस्तनी दिव्-परोक्षा णव् । 'भुवेझै-हुव-हवाः' (४६०) भू० → हुव० आदेशः । अनेन अद्यतन्यादिप्रत्ययस्थाने ईअ आदेशः । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।१।३) हुवी। [अच्छीअ] 'आसिक् उपवेशने' (१११९) आस् । अद्यतनी त-ह्यस्तनी त-परोक्षा ए । 'व्यञ्जना०' (४।२३९) अत् । 'गमिष्यमासां छ:' (४।२१५) स० → छ । 'तैलादौ' (२।९८) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'हस्वः संयोगे' (१९८४) आ० → अ० । अनेन अद्यतन्यादिप्रत्ययस्थाने ईअ इति । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१३) अच्छीअ। . [गेण्हीअ] 'ग्रहीश् उपादाने' (१५१७) ग्रह् । अद्यतनी दि-ह्यस्तनी दिव्-परोक्षा णव् । 'ग्रहो वल-गेह-हर-पङ्ग' (४।२०९) ग्रहस्थाने गेण्ह इति । अनेन अद्यतन्यादिप्रत्ययस्थाने ईअ इति । 'लोकात्' (१।१।३) गेण्हीअ ॥१३॥ तेनाऽस्तेरास्यहेसी ॥ ८।३।१६४ ॥ अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि-अहेसि इत्यादेशौ भवतः ।। आसि सो-तुमं-अहं वा । जे आसि । ये आसन्नित्यर्थः ॥ एवम्-अहेसि ॥ [तेनाऽस्तेरास्यहेसी] तद् तृतीया टा । अस्ति षष्ठी ङस् । आस्यहेसि प्रथमा औ । [आसि सो-तुम-अहं वा, जे आसि, अहेसि] 'असक भुवि' (११०२) अस् । ह्यस्तनी दिव-सिव्-अम्व । अनेन विभक्त्या सह अस्स्थाने आसि । एवम्-अहेसि ॥१६४॥ ज्जात् सप्तम्या इर्वा ॥ ८॥३।१६५ ॥ सप्तम्यादेशात् ज्जात् पर इर्वा प्रयोक्तव्यः ॥ भवेत् → होज्जइ - होज्ज ॥ [ज्जात्सप्तम्या इर्वा ] ज्ज पञ्चमी ङसि । सप्तमी षष्ठी ङस् । इ प्रथमा सि । वा प्रथमा सि । [होज्जइ होज्ज] 'भू सत्तायाम्' (१) भू (२) । सप्तमी यात् । 'वर्तमाना-भविष्यन्त्योश्च ज्ज-ज्जा वा' (३।१७७) यात्० → ज्ज० । 'भुवे)-हुव-हवाः' (४।६०) भू० → हो० । अनेन वा इ आगमः होज्जइ होज्ज ॥१६५॥ भविष्यति हिरादिः ॥ ८३॥१६६ ॥ भविष्यदर्थे विहिते प्रत्यये परे तस्यैवाऽऽदिर्हिः प्रयोक्तव्यः ।। होहिइ । भविष्यति भविता वेत्यर्थः ॥ एवम् - होहिन्ति । होहिसि । होहित्था । हसिहिइ । काहिइ ॥ [भविष्यति हिरादिः] भविष्यत् सप्तमी ङि । हि प्रथमा सि । आदि प्रथमा सि ।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442