Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 426
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ४१३ तुर्ययो०' (२।९०) पूर्वछस्य चः । 'हूस्वः संयोगे' (१८४) आ० → अ० । 'वर्तमाना-भवि०' (३।१७७) ते० → ज्ज० । 'ज्जा-ज्जे' (३।१५९) एत्त्वम् अच्छेज्ज । यत्र क्यस्तत्र अच्छिज्जेज्ज पूर्ववत् । [तेण अच्छीअइ] तेण पूर्ववत् । 'आसिक उपवेशने' (१११९) आस् । वर्त० ते । 'गमिष्यमासां छ:' (४।२१५) स० → छ० । 'तैलादौ' (२।९८) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२२९०) पूर्वछस्य चः । 'हुस्वः संयोगे' (१९८४) आ० → अ० । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । 'ईअ-इज्जौ क्यस्य' (३।१६०) यस्य ईअ० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० अच्छीअइ ॥१६०॥ दृशि-वचेर्डीस-डुच्चं ॥ ८।३।१६१ ॥ दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस-डुच्च इत्यादेशौ भवतः ॥ ईअ-इज्जापवादः ॥ दीसइ । वुच्चइ ॥ [ दृशि-वचेर्डीस-डुच्चं ] दृशि-वचि षष्ठी ङस् । डीस-डुच्च प्रथमा सि । [दीसइ] 'दृशं प्रेक्षणे' (४९५) दृश् । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन यस्य डीस० → ईस० इति । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१।१।३) दीसते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० दीसइ । [वुच्चइ ] 'वचं भाषणे' (१०९६) वच् । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन यस्य डुच्च० → उच्च० इति । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१।१३) वुच्चते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वुच्चइ ॥१६१।। सी-ही-हीअ भूतार्थस्य ॥ ८॥३।१६२ ॥ भतेऽर्थे विहितोऽद्यतन्यादिः प्रत्ययो भूतार्थस्तस्य स्थाने सी-ही-हीअ इत्यादेशा भवन्ति ॥ उत्तरत्र व्यञ्जनादीअविधानात् स्वरान्तादेवायं विधिः ।। कासी काही काहीअ । अकार्षीत् अकरोत् चकार वेत्यर्थः ॥ एवं-ठासी ठाही ठाहीअ ॥ आर्षे "देविन्दो इणमब्बवी" इत्यादौ सिद्धावस्थाश्रयणात् ह्यस्तन्याः प्रयोगः ॥ [सी-ही-हीअ भूतार्थस्य ] सी-ही-हीअ प्रथमा जस् । भूतार्थ षष्ठी ङस् । [कासी काही काहीअ] 'डुबंग करणे' (८८८) कृ (३) । अनेन अद्यतनी दि-शस्तनी दिव-परोक्षा णव् । 'आ: कृगो भूत-भविष्यतोश्च' (४।२१४) कृ० → का० । अनेन दि-दिव-णवस्थाने सी-ही-हीअ आदेशाः कासी काही काही। . [ठासी ठाही ठाहीअ] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै०' (२।३।९८) स्था । 'निमित्ताभावे.' (न्या० वक्ष० (१) - सूत्र (२९) स्था। अद्यतनी दि-शस्तनी दिव्-परोक्षा णव् । 'स्थष्ठा-थक्क-चिट्ठ-निरप्पाः' (४.१६) स्था० → ठा० । अनेन दि-दिव्-णवस्थाने सी-ही-हीअ आदेशा: ठासी ठाही ठाहीअ । [देविन्दो इणमब्बवी] देवेन्द्र । प्रथमा सि । 'हस्वः संयोगे' (१९८४) वे० → वि० । 'द्रे रो नवा' (२८०) लुक्। 'अतः से?:' (३२) सि० → डो० → ओ० देविन्दो । इदम् । द्वितीया अम् । 'क्लीबे स्यमेदमिणमो च' (३७९) अम्सहितस्य इदमः इणमादेशः । 'मोऽनु०' (१।२३) अनुस्वारः इणं ।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442