Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 428
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ४१५ [होहिइ ] 'भू सत्तायाम्' (१) भू । भविष्यन्ती स्यति-श्वस्तनी ता वा । 'त्यादीनामाद्य०' (३३१३९) स्यतिस्थानेतास्थाने इ० । अनेन हि आगमः । 'भुवेर्हो-हुव-हवाः' (४६०) भू० → हो० होहिड़ । [होहिन्ति ] भू । भविष्यन्ती स्यन्ति । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३।१४२) स्यन्ति० → न्ति० । अनेन हि आगमः । 'भुवेर्हो-हुव-हवाः' (४।६०) भू० → हो० होहिन्ति । [होहिसि] भू । भविष्यन्ती स्यसि । 'द्वितीयस्य सि-से' (३।१४०) स्यसि० → सि० । अनेन हि आगमः । 'भुवेर्हो-हुव-हवा:' (४६०) भू० → हो० होहिसि । [होहित्था ] भू । भविष्यन्ती स्यथ । 'मध्यमस्येत्था-हचौ' (३१४३) स्यथ० → इत्था० । अनेन हि आगमः । 'लुक्' (१।१०) इलुक् । 'भुवे:-हुव-हवाः' (४।६०) भू० → हो० होहित्था ।। [हसिहिइ ] 'हसे हसने' (५४५) हस् । भविष्यन्ती स्यति । 'त्यादीनामाद्य०' (३।१३९) स्यति० → इ० । अनेन हि आगम: । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसहिइ । 'एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु' (३।१५७) स० → सि० हसिहिए। [काहिड़ ] 'डुकंग करणे' (८८८) कृ। भविष्यन्ती स्यति । 'त्यादीनामा०' (३।१३९) स्यति० → इ० । अनेन हि आगमः । 'आः कृगो०' (४।२१४) कृ० → का० काहिइ ॥१६६।। मि-मो-मु-मे स्सा-हा नवा ॥ ८।३।१६७ ॥ भविष्यत्यर्थे मि-मो-मु-मेषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा-हा इत्येतौ वा प्रयोक्तव्यौ ॥ हेरपवादः ॥ पक्षे - हिरपि ॥ होस्सामि होहामि । होस्सामो होहामो । होस्सामु होहामु । होस्साम होहाम ॥ पक्षे - होहिमि । होहिमो । होहिमु । होहिम ॥ क्वचित्तु हा न भवति - हसिस्सामो । हसिहिमो ॥ [मि-मो-मु-मे स्सा-हा नवा ] मि-मो-मु-म सप्तमी ङि । स्सा-हा प्रथमा औ । नवा प्रथमा सि । [होस्सामि होहामि] 'भू सत्तायाम्' (१) भू (२) । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३।१४१) स्यामि० → मि० । 'अविति हुः' (४/६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । अनेन वा स्सा-हा आगमौ होस्सामि होहामि । [होस्सामो होहामो, होस्सामु होहामु, होस्साम होहाम] भू (६) । भविष्यन्ती स्यामस् । 'तृतीयस्य मो-मु-माः' (३।१४४) स्यामस्० → मो-मु-म० । 'अविति हु:' (४।६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । अनेन वा स्सा-हा आगमौ होस्सामो होहामो, होस्सामु होहामु, होस्साम होहाम । [होहिमि] भू । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३।१४१) स्यामि० + मि० । 'अविति हुः' (४६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः होहिमि । [होहिमो होहिमु होहिम] भू (३) । भविष्यन्ती स्यामस् । 'तृतीयस्य मो-मु-माः' (३।१४४) स्यामस्० → मो-मुम० । 'अविति हुः' (४।६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो । 'भविष्यति हिरादिः' (३।१६६) हि आगमः होहिमो होहिमु होहिम ।

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442