Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
अष्टमाध्यायस्य तृतीयः पादः ॥
४१७
[कित्तइस्सं] 'कृतण संशब्दने' (१६४९) कृत् । 'कृतः कीर्ति' (४|४|१२२) कीर्त० । 'प्रयोक्त०' (३।४।२०) णिगप्र० । भविष्यन्ती स्यामि । 'तृतीयस्य०' (३१४१) मि० । अनेन मि० → स्सं० । 'हस्वः संयोगे' (१८४) की० → कि० । 'सर्वत्र ल-व०' (२७९) लुक् । 'णेरनिटि' (४।३।८३) णिग्लुक् । "व्यञ्जना०' (४।२३९) अत् । “एच्च क्त्वातुम्०' (३।१५७) अत्० → इ० कित्तइस्सं । पक्षे -
[होहिमि] भू । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३।१४१) स्यामि० → मि० । 'अविति हुः' (४/६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । 'भविष्यति हिरादिः' (३६१६६) हि आगमः होहिमि ।
[होस्सामि] भू । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३।१४१) स्यामि० → मि० । 'अविति हुः' (४।६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । 'मि-मो-मु-मे स्सा-हा नवा' (३।१६७) स्सा आगमः होस्सामि ।
[होहामि] भू । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३।१४१) स्यामि० → मि० । 'अविति हुः' (४/६१) भू० → हु० । 'स्वराणां स्वराः' (४।२३८) हु० → हो० । 'मि-मो-मु०' (३।१६७) हा आगमः होहामि ।
[कित्तइहिमि] कित्तइ पूर्ववत् । भवि० स्यामि । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'तृतीयस्य मिः' (३।१४१) स्यामि० → मि० कित्तइहिमि ॥१६९॥
कृ-दो हं ॥ ८।३।१७० ॥ करोतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हं वा प्रयोक्तव्यः ॥ काहं । दाहं । करिष्यामि । दास्यामीत्यर्थः ॥ पक्षे-काहिमि । दाहिमि इत्यादि ॥ [कृदो हं] कृ-द् पञ्चमी ङसि । हं प्रथमा सि ।
[काहं] 'डुकंग करणे' (८८८) कृ। भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३१४१) स्यामि० → मि० । अनेन वा मि० → हं० । 'आः कृगो भूत-भविष्यतोश्च' (४।२१४) कृ० → का० काहं ।
[दाहं] 'डुदांग्क् दाने' (११३८) दा । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३३१४१) स्यामि० → मि० । अनेन वा मि० → हं० दाहं । पक्षे -
[काहिमि] कृ । भविष्यन्ती स्यामि । 'तृतीयस्य मि:' (३।१४१) स्यामि० → मि० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'आः कृगो०' (४।२१४) कृ० → का० काहिमि ।
[दाहिमि] दा । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३६१४१) स्यामि० → मि० । भविष्यति हिरादिः' (३।१६६) हि आगम: दाहिमि ॥१७०॥ श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं-दच्छं-मोच्छं-वोच्छं
छेच्छं-भेच्छं-भोच्छं ॥ ८।३।१७१ ॥ श्वादीनां धातूनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते ।।
सोच्छं श्रोष्यामि । गच्छं गमिष्यामि । संगच्छं संगस्ये । रोच्छं रोदिष्यामि । विदक ज्ञाने - वेच्छं वेदिष्यामि । दच्छं द्रक्ष्यामि । मोच्छं मोक्ष्यामि । वोच्छं वक्ष्यामि । छेच्छं छेत्स्यामि । भेच्छं भेत्स्यामि । भोच्छं भोक्ष्ये ॥
१.G कीर्तिः । २. G 'णेरदेदा०' (३३१४९) अत् ।
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442