Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 424
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ४११ [हसेउ हसउ ] हस् (२)। पञ्चमी तुव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१४३) हसतु । अनेन वा एत्त्वम् । 'दु-सु-मु विध्यादिष्वेकस्मिस्त्रयाणाम्' (३।१७३) तुव्० → दु० । 'क-ग-च-ज०' (१।१७७) द्लुक् हसेउ हसउ। [सुणेउ सुणउ] 'श्रृंट् श्रवणे' (१२९६) श्रु (२) । पञ्चमी तुव् । 'दु-सु-मु विध्यादि०' (३।१७३) तुव्० → दु० । 'चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो हुस्वश्च' (४।२४१) ण आगमः । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) रलक । 'श-षोः सः' (१।२६०) शु० → सु० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) सुणतु । अनेन वा एत्त्वम् । 'कग-च-ज०' (१।१७७) द्लुक् सुणेउ सुणउ । [हसेन्तो हसन्तो] हस् (२) । हसतीति हसन् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'शत्रानाशः' (३।१८१) न्त० । 'व्यञ्जना०' (४/२३९) अत् । 'लोकात्' (१।१३) हसन्त । अनेन वा एत्त्वम् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० हसेन्तो हसन्तो । [जयइ] "जिं जये' (८) जि । वर्त० तिव् । 'युवर्णस्य गुणः' (४।२३७) जि० → जे० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) जेअति । 'शेषं संस्कृतवत्' (४।४४८) इति कथनात् 'एदैतोऽयाय्' (१।२।२३) एकारस्य अय् । 'लोकात्' (१।१।३) जयति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० जयइ । [सुणाउ] 'श्रृंट् श्रवणे' (१२९६) श्रु । पञ्चमी तुव् । 'दु-सु-मु विध्यादि०' (३६१७३) तुव्० → दु० । “चि-जिश्रु०' (४।२४१) ण आगमः । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) शु० → सु० । क्वचिदात्वमपि । 'क-ग-च-ज०' (१।१७७) द्लुक् सुणाउ ॥१५८॥ ज्जा-ज्जे ॥ ८।३।१५९ ॥ ज्जा-ज्ज इत्यादेशयोः परयोरकारस्य एकारो भवति । हसेज्जा हसेज्ज ॥ अत इत्येव - होज्जा होज्ज ॥ [ज्जा-ज्जे] ज्जा-ज्ज सप्तमी ङि। [हसेज्जा हसेज्ज] हस् (२) । वर्त० तिव् । 'वर्तमाना-भविष्यन्त्योश्च ज्ज-ज्जा वा' (३।१७७) तिव्स्थाने ज्जाज्ज० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसज्जा हसज्ज । अनेन उभयत्र एकारः हसेज्जा हसेज्ज । [होज्जा होज्ज] 'भू सत्तायाम्' (१) भू । भविष्यन्ती स्यति । 'मध्ये च स्वरान्ताद्वा' (३।१७८) स्यतिस्थाने ज्जाज्ज आदेशौ । 'भुवे:-हुव-हवाः' (४६०) भू० → हो० होज्जा-होज्ज ॥१५९॥ ईअ-इज्जौ क्यस्य ॥ ८॥३॥१६० ॥ चि-जिप्रभृतीनां भाव-कर्मविधि वक्ष्यामः । येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात् प्राप्तस्य क्यस्य स्थाने ईअ-इज्ज इत्येतावादेशौ भवतः ॥ हसीअइ हसिज्जइ । हसीअन्तो हसिज्जन्तो । हसीअमाणो हसिज्जमाणो । पढीअइ पढिज्जइ । होईअइ होइज्जइ ॥ १. धा० पा० - केचित्तु "जिं जये" इत्यकर्मकत्वार्थं पृथक् पठन्ति, जयः सर्वोत्कर्षे इति च व्याचक्षते, उत्कर्षस्याभिभवाविशेषात् सकर्मकत्वाऽकर्मकत्वयोश्च विवक्षानिबन्धनत्वात्, तथा च जयति जिनः इत्यकर्मकः, जयति शत्रूनिति सकर्मकः । अत एव कौशिकोऽपि नामुमध्यैष्ट ।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442