Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 423
________________ ४१० व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु ॥ ८।३।१५७ ॥ क्त्वा-तुम्-तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोऽत एकारश्चकारादिकारश्च भवति ॥ क्त्वा-हसेऊण हसिऊण ॥ तुम्-हसेउं हसिउं ॥ तव्य-हसेअव्वं हसिअव्वं ॥ भविष्यत्-हसेहिइ हसिहिइ ॥ अत इत्येव-काऊण ॥ [एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु] एत् प्रथमा सि । च प्रथमा सि । क्त्वा-तुम्-तव्य-भविष्यत् सप्तमी सुप् । [हसेऊण हसिऊण] 'हसे हसने' (५४५) हस् (२) । हसनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तूण-तुआणाः' (२।१४६) क्त्वा० → तूण० इति । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (११११३) हसतूण । अनेन एत्त्वं-इत्त्वं च । 'क-ग-च-ज०' (१११७७) तलुक् हसेऊण हसिऊण । [हसेउं हसिउं] हस् (२) । हसनाय इति हसितुम् । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसतुम् । अनेन एत्त्वं-इत्त्वं च । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'मोऽनु०' (११२३) अनुस्वारः हसेउं हसिउं । [हसेअव्वं हसिअव्वं ] हस् (२) । हस्यते इति हसितव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) हसतव्यम् । अनेन एत्त्वं-इत्त्वं च । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अधो मन-याम्' (२।७८) यलुक् । 'अनादौ०' (२२८९) वस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः हसेअव्वं हसिअव्वं । [हसेहिड़ हसिहिड] हस (२) । भविष्यन्ती स्यति । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) हसस्यति । अनेन एत्त्वं-इत्त्वं च । 'त्यादीनामाद्य०' (३।१३९) स्यति० → इ० । 'भविष्यति हिरादिः' (३।१६६) "हि" आगमः हसेहिइ हसिहिइ । [काऊण] कृ । करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तूण-तुआणाः' (२।१४६) क्त्वा० → तूण० । 'आः कृगो भूत-भविष्यतोश्च' (४।२१४) कृ० → का० । 'क-ग-च-ज०' (१।१७७) त्लुक् काऊण ॥१५७।। वर्तमाना-पञ्चमी-शतष वा ॥८३।१५८ ॥ वर्तमाना-पञ्चमी-शतृषु परतोऽकारस्य स्थाने एकारो वा भवति ॥ वर्तमाना-हसेइ हसइ । हसेम हसिम । हसेमु हसिमु || पञ्चमी - हसेउ हसउ । सुणेउ सुणउ ॥ शतृ - हसेन्तो हसन्तो ।। क्वचिन्न भवति - जयइ ॥ क्वचिदात्त्वमपि - सुणाउ । [वर्तमाना-पञ्चमी-शतृषु वा] वर्तमाना-पञ्चमी-शतृ सप्तमी सुप् । वा प्रथमा सि । [हसेइ हसइ] 'हसे हसने' (५४५) हस् (२) । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) हसति । अनेन वा एकारः । 'त्यादीनामा०' (३।१३९) तिव्० → इ० हसेइ हसइ । [हसेम हसिम ] हस् (२) । वर्त० मस् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसमस् । अनेन वा एकारः । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → म० हसेम । 'इच्च मो-मु-मे वा' (३१५५) इत्त्वे हसिम । [हसेमु हसिमु] हस् (२) । वर्त० मस् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसमस् । अनेन वा एकारः । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → मु० हसेमु । 'इच्च मो-मु-मे वा' (३।१५५) इत्त्वे हसिमु ।

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442