Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 421
________________ ४०८ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ जन । प्रथमा सि । 'नो णः' (१२२२८) न० → ण । 'अतः सेझैः' (३।२) सि० → डो० → ओ० जणो । श्यामली । तृतीया टा । 'अधो म-न-याम्' (२।७८) य्लुक् । 'श-षोः सः' (१।२६०) शस्य सः । 'टा-ङस्डेरदादि०' (३।२९) टा० → ए० सामलीए । श्यामल्या स्त्रिया जनो हासापित इत्यर्थः ॥१५३॥ मौ वा ॥८३१५४ ॥ अत आ इति वर्त्तते । अदन्ताद्धातोर्मों परे अत आत्त्वं वा भवति । हसामि हसमि । जाणामि जाणमि । लिहामि लिहमि ॥ अत इत्येव-होमि ॥ [मौ वा] मि सप्तमी ङि । वा प्रथमा सि । [हसामि हसमि] 'हसे हसने' (५४५) हस् (२) । वर्त० मिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसमि । 'तृतीयस्य मिः' (३।१४१) मिक्० → मि० । अनेन वा आत्त्वम् हसामि हसमि ॥ __[जाणामि जाणमि ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा (२) । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव्० → मि० । 'ज्ञो जाण-मुणौ' (४७) ज्ञा० → जाण । अनेन वा आत्त्वम् जाणामि जाणमि । [लिहामि लिहमि] 'लिहींक आस्वादने' (११२९) लिह (२) । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिक् → मि० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१११३) लिहमि । अनेन वा आत्त्वम् लिहामि लिहमि । [ होमि] 'भू सत्तायाम्' (१) भू । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मित्० → मि० । 'भुवेर्हो हुव-हवाः' (४६०) भू० → हो० होमि ॥१५४॥ इच्च मो-मु-मे वा ॥ ८।३।१५५ ॥ अकारान्ताद्धातोः परेषु मो-मु-मेषु अत इत्त्वं चकाराद् आत्त्वं च वा भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम । पक्षे-भणमो । भणमु । भणम ॥ 'वर्तमाना-पञ्चमी-शतृषु वा' (३।१५८) इत्येत्त्वे तु भणेमो । भणेमु । भणेम ॥ अत इत्येव - ठामो । होमो ॥ [इच्च मो-मु-मे वा ] इत् प्रथमा सि । च प्रथमा सि । मो-मु-म सप्तमी ङि । वा प्रथमा सि । [भणिमो भणामो, भणिमु भणामु, भणिम भणाम] 'भण शब्दे' (२६४) भण् । वर्त० मिव् । 'तृतीयस्य मोमु-माः' (३।१४४) मि० → मो-मु-म आदेशाः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) भणमो-मु-म । अनेन वा इत्त्वं-आत्त्वं च । भणिमो भणामो । भणिमु भणामु । भणिम भणाम । पक्षे - __ [भणमो भणमु भणम ] भण् । वर्त० मस् । 'तृतीयस्य मो-मु-मा:' (३।१४४) मस्० → मो-मु-म आदेशाः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) भणमो भणमु भणम । [भणेमो भणेमु भणेम] भण् । वर्त० मस् । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → मो-मु-म आदेशाः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'वर्तमाना-पञ्चमी०' (३।१५८) एत्त्वम् भणेमो भणेमु भणेम । __ [ठामो ] स्था। वर्त० मस् । 'स्थष्ठा०' (४।१६) स्था० → ठा० । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → मो० ठामो। [होमो] 'भू सत्तायाम्' (१) भू । वर्त० मस् । 'तृतीयस्य मो-मु-मा:' (३।१४४) मस्० → मो० । 'भुवेझै-हुवहवाः' (४/६०) भू० → हो. होमो ॥१५५॥

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442