Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 411
________________ ३९८ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [विच्छुहिरे ] 'क्षुभच् सञ्चलने' (११९९) क्षुभ्, विपूर्व० । वर्त० अन्ति । अनेन अन्ति० → इरे० । 'क्षः खः क्वचित्तु०' (२१३) क्षु० → छु० । 'अनादौ०' (२१८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'खघ-थ-ध-भाम्' (१।१८७) भस्य हः । 'लोकात्' (१।१।३) विच्छुह० विच्छुहिरे । [सूसइरे गामचिक्खल्लो] 'शुषंच शोषणे' (१२०८) शुष् । वर्त० तिव् । अनेन तिव० → इरे० । 'रुषादीनां दीर्घः' (४।२३६) शु० → शू० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२१३) शूष० । 'श-षोः सः' (१।२६०) सूस० → सूसइरे। ग्रामचिक्खल्लो । 'सर्वत्र०' (२१७९) रलुक । चिक्खल्ल इति देश्यः कर्दमवाची ॥१४२॥ ___ मध्यमस्येत्था-हचौ ॥ ८।३।१४३ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च मध्यमत्रयस्य बहुषु वर्तमानस्य वचनस्य स्थाने इत्था-हच् इत्येतावादेशौ भवतः॥ हसित्था । हसह ॥ वेवित्था । वेवह ॥ बाहुलकादित्थान्यत्रापि । यद्यत्ते रोचते । जं जं ते रोइत्था ॥ हच् इति चकारः 'इह-हचोर्हस्य' (४।२६८) इत्यत्र विशेषणार्थः ॥ [ मध्यमस्येत्था-हचौ] मध्यम षष्ठी ङस् । इत्था-हच् प्रथमा औ । [हसित्था ] 'हसे हसने' (५४५) हस् । वर्त० थ । अनेन थ० → इत्था० । 'लोकात्' (१।१।३) हसित्था । [ हसह ] हस् । वर्त० थ । अनेन थ० → ह० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसह । [वेवित्था] 'टुवेपृङ् चलने' (७४५) वेप् । वर्त० ध्वे । अनेन ध्वे० → इत्था० । 'लोकात्' (१।१।३) वेपित्था । 'पो वः' (१२२३१) पि० → वि० वेविस्था । [वेवह] वेप् । वर्त० ध्वे । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) वेपध्वे । 'पो वः' (१।२३१) प० → व० । अनेन ध्वे० → ह. वेवह । [जं जं ते रोइत्था ] यद् (२) । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१२११) दलुक् । 'आदेर्यो जः' (१२४५) य० → ज० । 'क्लीबे स्वरान्म से:' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः जं जं । युष्मद् । चतुर्थी उ । 'चतुर्थ्याः षष्ठी' (३१३१) २० → ङस् । 'तइ-तु-ते०' (३।९९) ङसा सह युष्मद्स्थाने ते। 'रुचि अभिप्रीत्यां च' (९३८) रुच् । वर्त० ते । 'युवर्णस्य गुणः' (४।२३७) रु० → रो० । अनेन ते० → इत्था० । 'लोकात्' (१।१।३) रोचित्था । 'क-ग-च-ज०' (१।१७७) च्लुक् रोइत्था ॥१४३॥ तृतीयस्य मो-मु-माः ॥ ८।३।१४४ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्य सम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो-मु-म इत्येते आदेशा भवन्ति । हसामो । हसामु । हसाम || तुवरामो । तुवरामु । तुवराम ॥ [तृतीयस्य मो-मु-माः] तृतीय षष्ठी ङस् । मो-मु-म प्रथमा जस् । [हसामो हसामु हसाम ] 'हसे हसने' (५४५) हस् (३) । वर्तः मस् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' ३) हसमस् । अनेन मस्० → मो-मु-म आदेशाः । 'इच्च मो-मु-मे वा' (३.१५५) आ० हसामो हसामु हसाम ॥

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442