Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 412
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३९९ [तुवरामो तुवरामु तुवराम ] 'त्विरिष् सम्भ्रमे' (१०१०) त्वर् (३) । वर्त० महे । 'त्वरस्तुवर-जअडौ' (४।१७०) त्व० → तुवर आदेशः । अनेन महे० → मो-मु-म आदेशाः । 'इच्च मो-मु-मे वा' (३।१५५) आत्वम् तुवरामो तुवरामु तुवराम ॥१४४॥ अत एवैच से ॥ ८।३।१४५ ॥ त्यादेः स्थाने यौ एच-से इत्येतावादेशावुक्तौ तावकारान्तादेव भवतो नान्यस्मात् ॥ हसए । हससे । तुवरए । तुवरसे ॥ करए । करसे ॥ अत इति किम् ? ठाइ । ठासि । वसुआइ । वसुआसि । होइ। होसि ॥ एवकारोऽकारान्ताद् एच-से एव भवत इति विपरीतावधारणनिषेधार्थः । तेनाकारान्ताद् इच्-सि इत्येतावपि सिद्धौ हसइ । हससि ॥ वेवइ । वेवसि ॥ [अत एवैच् से] अत् पञ्चमी ङसि । एव प्रथमा सि । एच् - से प्रथमा औ । [हसए] 'हसे हसने' (५४५) हस् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'त्यादीनामाद्यत्रय०' (३।१३९) तिव्० → ए० हसए । [हससे ] हस् । वर्त० सिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'द्वितीयस्य सि-से' (३।१४०) सिव्० → से० हससे। [तुवरए] 'जित्वरिष् सम्भ्रमे' (१०१०) त्वर् । वर्त० ते । 'त्वरस्तुवर-जअडौ' (४।१७०) त्वर्० → तुवर० आदेशः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१११३) तुवरते । 'त्यादीनामाद्य०' (३।१३९) ते० → ए० तुवरए। [तुवरसे] त्वर । वर्त० से । 'त्वरस्तुवर-जअडौ' (४।१७०) त्वर० → तुवर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) तुवरसे । 'द्वितीयस्य सि-से' (३।१४०) से० → से० तुवरसे । [करए] 'डुकंग् करणे' (८८८) कृ । वर्त० तिव् । 'ऋवर्ण०' (४।२३४) कृ० → कर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) करति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → ए० करए । [करसे] कृ । वर्त० सिव् । 'ऋवर्ण०' (४।२३४) कृ० → कर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) करसि । 'द्वितीयस्य सि-से' (३।१४०) सिव्० → से० करसे । [ठाइ ] 'ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या० वक्ष० (१) - सूत्र २९) स्था। वर्त० तिव् । 'स्थष्ठा-थक्क-चिट्ठ-निरप्पाः' (४।१६) स्था० → ठा० । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० ठाइ। __ [ठासि] स्था । वर्त० सिव् । 'स्थष्ठा०' (४।१६) स्था० → ठा० । 'द्वितीयस्य सि-से' (३६१४०) सिव्० → सि० ठासि । [वसुआइ] 'वांक् गति-गन्धनयोः' (१०६३) वा, उत्पूर्व० । 'उद्वाकेरोरुम्मा-वसुआ' (४।११) उद्वा० → वसुआ इति । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० वसुआइ । [वसुआसि] वा, उत्पूर्व० । 'उद्वाकेरोरुम्मा-वसुआ' (४|११) उद्वा० → वसुआ इति । वर्त० सिव् । 'द्वितीयस्य सि-से' (३।१४०) सिव् → सि० वसुआसि ।

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442