Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अष्टमाध्यायस्य तृतीयः पादः ॥
४०१
ननु च सिद्धावस्थायां 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) इत्यनेन म्हादेशे म्हो इति सिध्यति । सत्यम्, किन्तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते, अन्यथा वच्छेण । वच्छेसु । सव्वे । जे । ते । के इत्याद्यर्थं सूत्राण्यनारम्भणीयानि स्युः ॥
[मि-मो-मैम्हि-म्हो-म्हा वा] मि-मो-म तृतीया भिस् । म्हि-म्हो-म्ह प्रथमा जस् । वा प्रथमा सि ।
[एस म्हि] एतद् । प्रथमा सि । 'वैसेणमिणमो सिना' (३८५) सिना सह एतद्स्थाने एस । 'असक् भुवि' (११०२) अस् । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिवस्थाने मि० । अनेन वा असस्थाने मिना सह म्हि ।
[गय म्हो गय म्ह] गत । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - त० → ता० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । 'जस्-शसोलुंक् (३।४) जस्लुक् । अस् (२) । वर्त० मिव् । 'तृतीयस्य मो-मु-माः' (३।१४४) प्रथमे मिक्० → मो-द्वितीये मि० → म० । अनेन वा अस्स्थाने मो-माभ्यां सह म्हो-म्ह० । 'हुस्वः संयोगे' (१९८४) या० → य० । गय म्हो । गय म्ह ।
[अत्थि अहं] अस् । वर्त० मिव् । 'अस्थिस्त्यादिना' (३।१४८) मिवा सह अस्० → अत्थि० । अस्मद् । प्रथमा सि । 'अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना' (३।१०५) सिना सह अस्मद् → अहं० । [ अस्थि अम्हे अत्थि अम्हो ] अस् (२) । वर्त० मस् । 'अस्थिस्त्यादिना' (३।१४८) मसा सह अस्० → अत्थि० । अस्मद् । प्रथमा जस् । 'अम्ह-अम्हे.' (३।१०६) अस्मदो जसा सह अम्हे अम्हो । अस्मद् । द्वितीया शस् । 'अम्हे-अम्हो०' (३।१०८) अस्मदः शसा सह अम्हे-अम्हो ॥१४७||
अस्थिस्त्यादिना ॥ ८॥३॥१४८ ॥ अस्तेः स्थाने त्यादिभिः सह अस्थि इत्यादेशो भवति ॥ अस्थि सो । अत्थि ते । अस्थि तुमं । अत्थि तुम्हे । अत्थि अहं । अत्थि अम्हे ॥ [अत्थिस्त्यादिना] अस्थि प्रथमा सि । त्यादि तृतीया टा।
[अत्थि सो, अत्थि ते, अस्थि तुमं, अत्थि तुम्हे, अत्थि अहं, अत्थि अम्हे] 'असक् भुवि' (११०२) अस् (६) । वर्त० तिव्-अन्ति-सिव्-थ-मित्-मस् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० । 'बहुष्वाद्यस्य०' (३।१४२) अन्ति० → न्ति० । 'द्वितीयस्य सि-से' (३।१४०) सिव्० → सि० । 'मध्यमस्येत्था-हचौ' (३।१४३) थ० → इत्था० । 'तृतीयस्य मिः' (३।१४१) मि० → मि० । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → मो० । अनेन असस्थाने सर्वैरादेशैः सह अत्थि इत्यादेशः अस्थि ॥१४८।।
णेरदेदावावे ॥ ८।३।१४९ ॥ णे: स्थाने अत्-एत्-आव-आवे 'इति चत्वार आदेशा भवन्ति ॥
दरिसइ । कारेइ । करावइ । करावेइ ॥ हासेइ । हसावइ । हसावेइ ॥ उवसामेइ ॥ उवसमावइ । उवसमावेइ ॥ बहुलाधिकारात् क्वचिदेन्नास्ति-जाणावेइ ॥ क्वचिद् आवे नास्ति - पाएइ । भावेइ ॥
[णेरदेदावावे] णि षष्ठी ङस् । अत्-एत्-आव-आवे प्रथमा जस् ।
१. H.J. L. M. एते ।

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442