SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ४०१ ननु च सिद्धावस्थायां 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) इत्यनेन म्हादेशे म्हो इति सिध्यति । सत्यम्, किन्तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते, अन्यथा वच्छेण । वच्छेसु । सव्वे । जे । ते । के इत्याद्यर्थं सूत्राण्यनारम्भणीयानि स्युः ॥ [मि-मो-मैम्हि-म्हो-म्हा वा] मि-मो-म तृतीया भिस् । म्हि-म्हो-म्ह प्रथमा जस् । वा प्रथमा सि । [एस म्हि] एतद् । प्रथमा सि । 'वैसेणमिणमो सिना' (३८५) सिना सह एतद्स्थाने एस । 'असक् भुवि' (११०२) अस् । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिवस्थाने मि० । अनेन वा असस्थाने मिना सह म्हि । [गय म्हो गय म्ह] गत । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - त० → ता० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । 'जस्-शसोलुंक् (३।४) जस्लुक् । अस् (२) । वर्त० मिव् । 'तृतीयस्य मो-मु-माः' (३।१४४) प्रथमे मिक्० → मो-द्वितीये मि० → म० । अनेन वा अस्स्थाने मो-माभ्यां सह म्हो-म्ह० । 'हुस्वः संयोगे' (१९८४) या० → य० । गय म्हो । गय म्ह । [अत्थि अहं] अस् । वर्त० मिव् । 'अस्थिस्त्यादिना' (३।१४८) मिवा सह अस्० → अत्थि० । अस्मद् । प्रथमा सि । 'अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना' (३।१०५) सिना सह अस्मद् → अहं० । [ अस्थि अम्हे अत्थि अम्हो ] अस् (२) । वर्त० मस् । 'अस्थिस्त्यादिना' (३।१४८) मसा सह अस्० → अत्थि० । अस्मद् । प्रथमा जस् । 'अम्ह-अम्हे.' (३।१०६) अस्मदो जसा सह अम्हे अम्हो । अस्मद् । द्वितीया शस् । 'अम्हे-अम्हो०' (३।१०८) अस्मदः शसा सह अम्हे-अम्हो ॥१४७|| अस्थिस्त्यादिना ॥ ८॥३॥१४८ ॥ अस्तेः स्थाने त्यादिभिः सह अस्थि इत्यादेशो भवति ॥ अस्थि सो । अत्थि ते । अस्थि तुमं । अत्थि तुम्हे । अत्थि अहं । अत्थि अम्हे ॥ [अत्थिस्त्यादिना] अस्थि प्रथमा सि । त्यादि तृतीया टा। [अत्थि सो, अत्थि ते, अस्थि तुमं, अत्थि तुम्हे, अत्थि अहं, अत्थि अम्हे] 'असक् भुवि' (११०२) अस् (६) । वर्त० तिव्-अन्ति-सिव्-थ-मित्-मस् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० । 'बहुष्वाद्यस्य०' (३।१४२) अन्ति० → न्ति० । 'द्वितीयस्य सि-से' (३।१४०) सिव्० → सि० । 'मध्यमस्येत्था-हचौ' (३।१४३) थ० → इत्था० । 'तृतीयस्य मिः' (३।१४१) मि० → मि० । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → मो० । अनेन असस्थाने सर्वैरादेशैः सह अत्थि इत्यादेशः अस्थि ॥१४८।। णेरदेदावावे ॥ ८।३।१४९ ॥ णे: स्थाने अत्-एत्-आव-आवे 'इति चत्वार आदेशा भवन्ति ॥ दरिसइ । कारेइ । करावइ । करावेइ ॥ हासेइ । हसावइ । हसावेइ ॥ उवसामेइ ॥ उवसमावइ । उवसमावेइ ॥ बहुलाधिकारात् क्वचिदेन्नास्ति-जाणावेइ ॥ क्वचिद् आवे नास्ति - पाएइ । भावेइ ॥ [णेरदेदावावे] णि षष्ठी ङस् । अत्-एत्-आव-आवे प्रथमा जस् । १. H.J. L. M. एते ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy