SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०० व्युत्पत्तिदीपिकाभिधान-दुण्डिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ __[होइ] 'भू सत्तायाम्' (१) भू । वर्तः तिव् । 'भुवेर्हो-हुव-हवाः' (४।६०) भू० → हो० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० होइ । ___ [होसि] भू । वर्तः सिव् । 'भुवेझै-हुव-हवाः' (४६०) भू० → हो० । 'द्वितीयस्य सि-से' (३।१४०) सिव० → सि० होसि । [हसइ] हस् । वर्तः तिव् । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात' (१।१।३) हसति । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० हसइ । [हससि ] हस् । वर्त्तः सिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हससि । 'द्वितीयस्य सि-से' . (३।१४०) सिक् → सि० हससि । [वेवइ ] वेप् । वर्त्तः तिव्(ते) । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (१।१॥३) वेपति(ते) । 'पो वः' (१।२३१) प० → व० । 'त्यादीनामाद्य०' (३।१३९) ति०(ते०) → इ० वेवइ । __ [वेवसि] वेप । वर्त० सिव्(से) । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (११०३) वेपसि(से) । 'पो वः' (१।२३१) प० → व० । 'द्वितीयस्य सि-से' (३।१४०) सिव्०(से०) → सि० वेवसि ॥१४५॥ सिनास्तेः सिः ॥ ८॥३॥१४६ ॥ सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति । निगुरो जं सि ॥ सिनेति किम् ? से आदेशे सति अत्थि तुमं ॥ [सिनास्तेः सिः ] सि तृतीया टा । अस्ति षष्ठी ङस् । सि प्रथमा सि । जं सि] निष्ठर । प्रथमा सि । 'ष्टस्याऽनु०' (२०३४) ष्ठस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'अतः से?:' (३२) सि० → डो० → ओ० निडरो । यद् । प्रथमा सि । 'आदेर्यो जः' (१।२४५) य० → ज० । 'अन्त्यव्य०' (१।११) द्लुक् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः जं । 'असक् भुवि' (११०२) अस् । वर्तः सिव् । 'द्वितीयस्य सि-से' (३१४०) सिव० → सि० । अनेन सिना सह अस्स्थाने सि । [अस्थि तुमं] 'असक् भुवि' (११०२) अस् । वर्त० सिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।११३) अससि । “द्वितीयस्य सि-से' (३।१४०) सिव्स्थाने से । 'अत्थिस्त्यादिना' (३३१४८) सेसह अस्स्थाने अस्थि । युष्मद् । प्रथमा सि । 'युष्मदस्तं-तुं-तुवं-तुह-तुमं सिना' (३।९०) सिना सह युष्मत्स्थाने तुमं ॥१४६॥ मि-मो-मैम्हि-म्हो-म्हा वा ॥ ८॥३।१४७ ॥ अस्तेर्धातोः स्थाने मि-मो-म इत्यादेशैः सह यथासंख्यं म्हि-म्हो-म्ह इत्यादेशा वा भवन्ति ॥ एस म्हि । एषोऽस्मीत्यर्थः ॥ गय म्हो । गय म्ह ॥ मुकारस्याग्रहणादप्रयोग एव तस्येत्यवसीयते ॥ पक्षे-अत्थि अहं । अस्थि अम्हे । अस्थि अम्हो ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy