Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 409
________________ ३९६ व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ जाण० इति । 'लुक्' (१।१।३) अलुक् । 'लोकात् ' क्लुक् । 'अवर्णो ० ' (१११८० ) अ० → य० । आमन्त्रणे सि । (५/११४८) णकप्र० अक इति । 'ज्ञो जाण मुणौ' (४।७) ज्ञा० (१|१|३) जाणक । 'क-ग-च-ज०' (१।१७७) 'अन्त्यव्य ० ' (१।११) स्लुक् बहुजाणय ! । रु (रो)षितुम् । 'श-षोः सः' (११२६०) षि० सि० । 'क- ग च ज०' (१।१७७) त्लुक् रूसिउं । 'शक्लृट् शक्तौ' (१३००) शक् । वर्त्त० मिव् । बाहुलकात् अनेन मि- मध्याद् इलुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत्। 'शकादीनां०' (४।२३०) क्क० । 'लोकात् ' (१।१।३) क्क० । 'मोऽनु० ' (१।२३) अनुस्वारः सक्कं । [न मरं ] नपूर्वं 'मृत् प्राणत्यागे' (१३३३) मृ । वर्त्त० ए। 'ऋवर्ण०' (४।२३४) मृ० मर० । अनेन ए० मि० । बाहुलकात् मि- मध्याद् इलुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) मरम् । 'मोऽनु० ' (१।२३) अनुस्वारः न मरं ॥ १४१ ॥ बहुष्वाद्यस्य न्ति-ते- इरे ॥ ८।३।१४२ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च प्रथमत्रयस्य बहुषु वर्तमानस्य वचनस्य स्थाने न्ति- न्ते- इरे इत्यादेशा भवन्ति ॥ हसन्ति । वेवन्ति । हसिज्जन्ति । रमिज्जन्ति ॥ गज्जन्ते खे मेहा | बीहन्ते रक्खसाणं च ॥ उप्पज्जन्ते कइहिअयसायरे कव्वरयणाई || दोण्णि वि न पहुप्पिरे बाहू । न प्रभवत इत्यर्थः ॥ विच्छुहिरे । विक्षुभ्यन्तीत्यर्थः ॥ क्वचिद् इरे एकत्वेऽपि सूसरे गाम - चिक्खल्लो । शुष्यतीत्यर्थः ॥ [ बहुष्वाद्यस्य न्ति-ते- इरे ] बहु सप्तमी सुप् । आद्य षष्ठी ङस् । न्ति- न्ते - इरे प्रथमा जस् । [ हसन्ति ] 'हसे हसने' (५४५) हस् । वर्त्त० अन्ति । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) हस । अनेन अन्ति० न्ति० हसन्ति । -> [ वेवन्ति ] 'टुवेपृङ् चलने' (७५४) वेप् । वर्त्त० अन्ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) वेप । 'पो वः' (१।२३१) प०व० । अनेन अन्ते०न्ति० वेवन्ति । [ हसिज्जन्ति ] हस् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० य । 'ईअ- इज्जौ क्यस्य' (३।१६०) यस्य इज्ज इति । 'लोकात्' (१|१|३) हसिज्ज । अनेन अन्ते०न्ति० हसिज्जन्ति । [ रमिज्जन्ति ] 'रमिं क्रीडायाम्' (९८९) रम् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० य० । 'ईअइज्जौ क्यस्य' (३|१६०) यस्य इज्ज इति । 'लोकात् ' (१|१|३) रमिज्ज । अनेन अन्ते०न्ति० रमिज्जन्ति । '[ गज्जन्ते खे मेहा, फुल्ला नीवा पणच्चिंआ मोरा । न चंदुज्जोओ, वासारत्तो हला ! पत्तो ॥ १ ॥ ] अस्य व्याख्या - खे- आकाशे मेघा गर्जन्ति । नीपा: फुल्ला वर्त्तन्ते । मयूराः प्रनृत्यन्तो वर्त्तन्ते । चन्द्रोद्योतो नष्टः । हे सखि ! वर्षारात्रः प्राप्तः इत्यर्थः ॥ १. [० प्र० १० २२६ । स० क० - ३।१५३ | क० द० - २३६] गर्जन्ते खे मेघाः फुल्ला नीवाः प्रणर्तिता मयूराः । नष्टश्चन्द्रोद्योतः वर्षात्रः सखि ! प्राप्तः ॥ २. पाठां० - स० क० - पणद्दिआ = प्रनर्तिता । ३. स० क० - शृ० प्र० - वर्षर्तुः ॥

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442