________________
३९६
व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
जाण० इति । 'लुक्' (१।१।३) अलुक् । 'लोकात् ' क्लुक् । 'अवर्णो ० ' (१११८० ) अ० → य० । आमन्त्रणे सि ।
(५/११४८) णकप्र० अक इति । 'ज्ञो जाण मुणौ' (४।७) ज्ञा० (१|१|३) जाणक । 'क-ग-च-ज०' (१।१७७) 'अन्त्यव्य ० ' (१।११) स्लुक् बहुजाणय ! ।
रु (रो)षितुम् । 'श-षोः सः' (११२६०) षि०
सि० । 'क- ग च ज०' (१।१७७) त्लुक् रूसिउं ।
'शक्लृट् शक्तौ' (१३००) शक् । वर्त्त० मिव् । बाहुलकात् अनेन मि- मध्याद् इलुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत्। 'शकादीनां०' (४।२३०) क्क० । 'लोकात् ' (१।१।३) क्क० । 'मोऽनु० ' (१।२३) अनुस्वारः सक्कं ।
[न मरं ] नपूर्वं 'मृत् प्राणत्यागे' (१३३३) मृ । वर्त्त० ए। 'ऋवर्ण०' (४।२३४) मृ० मर० । अनेन ए० मि० । बाहुलकात् मि- मध्याद् इलुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) मरम् । 'मोऽनु० ' (१।२३) अनुस्वारः न मरं ॥ १४१ ॥
बहुष्वाद्यस्य न्ति-ते- इरे ॥ ८।३।१४२ ॥
त्यादीनां परस्मैपदानामात्मनेपदानां च प्रथमत्रयस्य बहुषु वर्तमानस्य वचनस्य स्थाने न्ति- न्ते- इरे इत्यादेशा भवन्ति ॥
हसन्ति । वेवन्ति । हसिज्जन्ति । रमिज्जन्ति ॥ गज्जन्ते खे मेहा | बीहन्ते रक्खसाणं च ॥ उप्पज्जन्ते कइहिअयसायरे कव्वरयणाई || दोण्णि वि न पहुप्पिरे बाहू । न प्रभवत इत्यर्थः ॥ विच्छुहिरे । विक्षुभ्यन्तीत्यर्थः ॥ क्वचिद् इरे एकत्वेऽपि सूसरे गाम - चिक्खल्लो । शुष्यतीत्यर्थः ॥
[ बहुष्वाद्यस्य न्ति-ते- इरे ] बहु सप्तमी सुप् । आद्य षष्ठी ङस् । न्ति- न्ते - इरे प्रथमा जस् ।
[ हसन्ति ] 'हसे हसने' (५४५) हस् । वर्त्त० अन्ति । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) हस । अनेन अन्ति० न्ति० हसन्ति ।
->
[ वेवन्ति ] 'टुवेपृङ् चलने' (७५४) वेप् । वर्त्त० अन्ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) वेप । 'पो वः' (१।२३१) प०व० । अनेन अन्ते०न्ति० वेवन्ति ।
[ हसिज्जन्ति ] हस् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० य । 'ईअ- इज्जौ क्यस्य' (३।१६०) यस्य इज्ज इति । 'लोकात्' (१|१|३) हसिज्ज । अनेन अन्ते०न्ति० हसिज्जन्ति ।
[ रमिज्जन्ति ] 'रमिं क्रीडायाम्' (९८९) रम् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० य० । 'ईअइज्जौ क्यस्य' (३|१६०) यस्य इज्ज इति । 'लोकात् ' (१|१|३) रमिज्ज । अनेन अन्ते०न्ति० रमिज्जन्ति ।
'[ गज्जन्ते खे मेहा, फुल्ला नीवा पणच्चिंआ मोरा ।
न चंदुज्जोओ, वासारत्तो हला ! पत्तो ॥ १ ॥ ]
अस्य व्याख्या - खे- आकाशे मेघा गर्जन्ति । नीपा: फुल्ला वर्त्तन्ते । मयूराः प्रनृत्यन्तो वर्त्तन्ते । चन्द्रोद्योतो नष्टः । हे सखि ! वर्षारात्रः प्राप्तः इत्यर्थः ॥
१. [० प्र० १० २२६ । स० क० - ३।१५३ | क० द० - २३६]
गर्जन्ते खे मेघाः फुल्ला नीवाः प्रणर्तिता मयूराः ।
नष्टश्चन्द्रोद्योतः वर्षात्रः सखि ! प्राप्तः ॥
२. पाठां०
- स० क० - पणद्दिआ = प्रनर्तिता । ३. स० क० - शृ० प्र० - वर्षर्तुः ॥