________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३९५
हसइ हसए ॥ वेवइ वेवए | चकारौ 'इचेचः' (४।३१८) इत्यत्र विशेषणार्थौ ॥ [त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ] त्यादि षष्ठी आम् । आद्यत्रय षष्ठी ङस् । आद्य षष्ठी डस् । इचेच प्रथमा औ।
[हसइ हसए ] 'हसे हसने' (५४५) हस् (२) । वर्तः तिव् । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (१।१।३) हसति । अनेन तिव्स्थाने इच् → इ, एच् → ए, हसइ हसए ।
[वेवइ वेवए] 'टुवेपृङ् चलने' (७५४) वेप् (२) । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।११३) वेपते । अनेन ते स्थाने इच् → इ, एच् → ए । 'पो वः' (१२२३१) प० → व० वेवइ वेवए ॥१३९॥
द्वितीयस्य सि-से ॥ ८।३।१४०॥ त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य सम्बन्धिन आद्यस्य वचनस्य स्थाने सि-से इत्येतावादेशौ भवतः ॥ हससि हससे ॥ वेवसि वेवसे ॥
[द्वितीयस्य सि-से] द्वितीय षष्ठी ङस् । सि-से प्रथमा औ ।
[हससि हससे ] 'हसे हसने' (५४५) हस् । वर्त्तः सिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) हससि । अनेन सिस्थाने सि-से हससि हससे ।
[वेवसि वेवसे ] 'टुवेपृङ् चलने' (७४५) वेप् । वर्त० सिव्(से) । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) वेपसि(से) । 'पो वः' (१२२३१) प० → व० । अनेन सिव(से)स्थाने सि-से वेवसि वेवसे ॥१४०॥
तृतीयस्य मिः ॥८।१४१ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याऽऽद्यस्य वचनस्य स्थाने मिरादेशो भवति । हसामि । वेवामि ॥ बहुलाधिकाराद् मिव्स्थानीयस्य मेरिकारलोपश्च ।। 'बहुजाणय ! रूसिउं सक्कं । शक्नोमीत्यर्थः ॥ न मरं । न म्रिये इत्यर्थः ॥ [तृतीयस्य मिः] तृतीय षष्ठी ङस् । मि प्रथमा सि ।
[हसामि] 'हसे हसने' (५४५) हस । 'वर्त० मिव । अनेन मिव० → मि० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हसमि । 'मौ वा' (३।१५४) आत्वम् हसामि ।
[वेवामि ] 'टुवेपृङ् चलने' (७५४) वेप् । वर्त० ए । अनेन ए० → मि० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) वेपमि । 'मौ वा' (३/१५४) आत्वम् । 'पो वः' (१।२३१) पा० → वा० वेवामि ।
[बहुजाणय ! रूसिउं सक्कं] बहु-ज्ञान । हे पूर्व० । प्रथमा सि । बहु ज्ञानं यस्य सः, तस्य सम्बोधने 'स्वार्थे कश्च वा' (२।१६४) कप्र० । 'ज्ञो ञः' (२२८३) ब्लुक् । 'नो णः' (१२२२८) न० → ण । 'क-ग-च-ज०' (१२१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'अन्त्यव्य०' (१।११) स्लुक् । अथवा बहु जानातीति । 'णक-तृचौ'
१. हिअंअट्ठाविअमण्णुं अवरुट्ठमुहं हि मं पसाअन्त । अवरुद्धस्स वि ण हु दे बहुजाणअ ! रोसिउं सक्कं ॥ .
1 [ध्व० लो० - द्वितीयोद्योतः । अनु० अङ्कः -६६] हृदयस्थापितमन्युमपरुष्टमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ ! रोषितुं शक्यम् ॥ १. पाठां० - अनु० - हियअट्ठिअमन्नु खु अणरुड्ढमुहं पि मं पसायंतं । हृदयस्थितमन्युं खलु अनूर्ध्वमुखीमपि मां प्रसादयतः ।