________________
३९४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[तेणं समएणं] तेणं पूर्ववत् । समय । सप्तमी ङि । सूत्रेण तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण० । 'टाण-शस्येत्' (३।१४) य० → ये० । 'क-ग-च-ज०' (१२१७७) यलुक् । 'क्त्वा-स्यादेण०' (१।२७) अनुस्वारः समएणं।
[चउवीसं पि जिणवरा] चतुर्विंशति । प्रथमा सि । प्रथमार्थेऽपि द्वितीया । सिस्थाने द्वितीया अम् । 'विंशत्यादेर्लुक् (१।२८) अनुस्वारलुक् । 'ईर्जिह्वा-सिंह-त्रिंशतिशतौ त्या' (१।९२) तिलुक् - वि० → वी० । 'श-षोः सः' (१।२६०) श० → स० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः चउवीसं ।
अपि । प्रथमा सि । ‘पदादपेर्वा' (१।४१) अलुक् । 'अव्ययस्य' (३।२७) सिलुप् पि ।
जिनवर । प्रथमा जस् । 'नो णः' (१।२२८) न० → ण । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - र० → रा० । 'जस्-शसोलुंक (३।४) जस्लुक जिणवरा ॥१३७।।
क्यङोर्यलुक् ॥ ८।३।१३८ । क्यङन्तस्य क्यअन्तस्य वा सम्बन्धिनो यस्य लुग् भवति ॥ क्यङ्-गरुआइ गरुआअइ । अगुरुर्गुरुर्भवति - गुरुरिवाचरति वेत्यर्थः ॥ क्यले - दमदमाइ दमदमाअइ || लोहिआइ लोहिआअइ ॥ [क्यडोर्यलुक् ] क्यङ् षष्ठी ओस् । यलुक् प्रथमा सि ।
[गरुआइ गरुआअइ] गुरु । 'स्वार्थे कश्च वा' (२२१६४) कप्र० । 'गुरौ के वा' (१।१०९) गु० → गु० - ग० । अगुरुको गुरुको भवति । 'व्यर्थे भृशादेः०' (३।४।२९) क्यप्र० → य इति । अथवा गुरुक इवाचरति । 'क्यङ्' (३।४।२६) क्य प्र० → य । शेषं संस्कृतवत् । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः - क० → का० । अनेन य्लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० गरुआइ । 'स्वरादनतो वा' (४।२४०) इति विकल्पेन अत् स्यात् । यत्र न अत् तत्र गरुआइ, यत्र अत् तत्र गरुआअइ इति रूपद्वयम् ।।
[दमदमाइ दमदमाअइ] दमत् । अदमत् दमत् भवति । 'अव्यक्तानुकरणादनेकस्वरात्०' (७।२।१४५) डाचप्र० - दमद्विर्वचनं च । 'डाच्यादौ' (७।२।१४९) त्लुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलुक् । 'डाच्लोहितादिभ्यः षित्' (३।४।३०) क्य प्र० → य० । अनेन यलुक् । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० दमदमाइ । आडम्बरं करोतीत्यर्थः । 'स्वरादनतो वा' (४।२४०) अत् दमदमाअइ । . [लोहिआइ लोहिआअइ] लोहित । अलोहितो लोहितो भवति । 'अव्यक्तानुकरणादनेकस्वरात्०' (७२।१४५) डाचप्र० → आ इति । 'डित्यन्त्य०' (२।१।११४) अलुक । 'लोकात्' (१।१।३) लोहिता । 'डाच-लोहितादिभ्यः पित्' (३।४।३०) क्य प्र० → य० । अनेन यलुक् । वर्त० ते । 'त्यादीनामाद्य०' (३।४।३०) ते० → इ० । 'क-ग-च-ज०' (१।१७७) त्लुक् लोहिआइ । 'स्वरादनतो वा' (४।२४०) अत् आगमः लोहिआअइ ॥१३८॥
त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ ॥८।३।१३९ ॥ त्यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च सम्बन्धिनः प्रथमत्रयस्य यदाद्यं वचनं तस्य स्थाने इच्-एच इत्येतावादेशौ भवतः ॥ १. एवं मए अभिथुआ विहुअरयमला पहीणजरमरणा । चउवीसं पि जिणवरा तित्थयरा मे पसीयन्तु ।
[आवश्यकसूत्रे चतुर्विंशतिस्तवे गा. ५] _एवं मया अभिष्टुता विधूत-रजो-मलाः प्रहीण-जरा-मरणाः । चतुर्विंशतिरपि जिनवराः तीर्थकरा मे प्रसीदन्तु ||