________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३९३
[अन्तेउरे रमिङमागओ राया] अन्तर्-पुर । पञ्चमी ङसि । अनेन ङसि० → ङि० । 'अन्त्यव्य०' (१।११) लुक् । 'तोऽन्तरि' (१।६०) एत्वम्-त० → ते० । 'क-ग-च-ज०' (१।१७७) प्लुक् । 'डे-म्मि डे (३.११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) अन्तेउरे ।
'रमि क्रीडायाम्' (९८९) रम् । रमणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तूण-तुआणाः' (२।१४६) क्त्वा० → तुम्० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) रमतुम् । “एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु' (३।१५७) म० → मि० । 'क-ग-च-ज०' (१।१७७) त्लु क रमिउम् ।
आगत । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अतः से?:' (३२) सि० → डो० → ओ० आगओ।
राजन् । प्रथमा सि । 'अन्त्यव्य०' (१।११) न्लुक् । 'राज्ञः' (३।४९) जा० । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । 'अन्त्यव्य०' (१।११) स्लुक् राया ॥१३६॥
सप्तम्या द्वितीया ॥८३।१३७ ॥ सप्तम्या: स्थाने क्वचिद् द्वितीया भवति ।
विज्जुज्जोयं भरइ रत्तिं ॥ आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले तस्मिन् समये इत्यर्थः । प्रथमाया अपि द्वितीया दृश्यते । चउवीसं पि जिणवरा । चतुर्विंशतिरपि जिनवरा इत्यर्थः ॥
[ सप्तम्या द्वितीया ] सप्तमी षष्ठी ङस् । द्वितीया प्रथमा सि ।
[विज्जुज्जोअं भरइ रत्तिं] विद्युत् । प्रथमा सि । 'अन्त्यव्य०' (१।११) लुक् । 'द्य-य्य-यां जः' (२।२४) द्यस्य ज: - धु० → जु० । 'अनादौ०' (२।८९) जस्य द्वित्वं - जु० → ज्जु० । 'अक्लीबे सौ' (३।१९) दीर्घः - ज्जु० → ज्जू० । 'अन्त्यव्य०' (१।११) स्लुक् विज्जू ।
उद्योत । द्वितीया अम् । 'लुक् (१।१०) ऊलोपः । 'द्य-यय-या जः' (२२४) द्यस्य जः - द्यो० → जो० । 'अनादौ०' (२२८९) जस्य द्वित्वं - जो० → ज्जो० । 'क-ग-च-ज०' (१११७७) तुलुक् । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः उज्जोअं विज्जुज्जोअं ।
'भृ धातुः । वर्त० तिव् । 'ऋवर्णस्या०' (४।२३४) भृ० → भर्० ।- 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० भरइ ।
रात्रि । सप्तमी ङि । अनेन सप्तमीस्थाने द्वितीया अम् । 'हस्वः संयोगे' (१८४) रा० → र० । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वं - ति० → त्ति० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः रत्तिं । काचिनारी रात्री गच्छन्ती(ति) विधुदुद्योतं स्मरतीत्यर्थः ।
[तेणं कालेणं] तद् । सप्तमी ङि । आर्षत्वात् सप्तमीस्थाने तृतीया टा । 'अन्त्यव्य०' (१२११) द्लुक् । 'टा'आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) त० → ते० । 'क्त्वा-स्यादेर्ण-स्वोर्वा' (१।२७) अनुस्वारः तेणं।
काल । सप्तमी ङि । आर्षत्वात् सप्तम्याः स्थाने तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) ल० →ले० । 'क्त्वा-स्यादेण०' (१९२७) अनुस्वारः कालेणं ।
१. टिप्पनकम् - अत्र 'स्मृ चिन्तायाम्' (१८) धातोर्गृहीत्वा तस्य 'स्मरेझर०' (४७४) सूत्रेण भर आदेशग्रहणं सम्यक् प्रतिभाति ।