________________
३९२
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
"टुवेपृङ् चलने' (७५४) वेप् । वेपति(ते) इत्येवंशीलः । 'शीलाद्यर्थस्येरः' (२१४५) इरप्र० । 'लोकात्' (१।१।३) वेपिर० । 'पो वः' (१।२३१) पि० → वि० । अनेन टा० → ङि० । 'अजातेः पुंसः' (३।३२) ङीप्र० । 'लोकात्' (१।१।३) वेविरी० । 'टा-ङस्-डेरदादि०' (३।२९) ङि० → ए० वेविरीए ।
.. 'मृदश् क्षोदे' (१५५०) मृद् । क्तप्र० । 'मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः' (४।१२६) मृ० → मल० । 'क्ते' (३।१५६) ल० → लि० । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१।३) मलित० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा जस् । 'जस्-शस-इ-इं०' (३।२६) जस्० → इं० - पूर्वस्य च दीर्घः मलिआई । मया कम्पमानया मदितानीत्यर्थः ॥
[विहलं जो अवलंबइ, आवइवडिअं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहई ॥]
यो विफलं - धनरहितं पुमांसं अवलम्बते, यश्चापत्पतितं समुद्धरति, यश्च शरणागतं रक्षति, तैस्त्रिभिः पृथ्वी अलङ्कृता वर्तते इत्यर्थः ॥
त्रि । तृतीया भिस् । 'स्ती तृतीयादौ' (३।११८) त्रि० → ती० । 'पानीया०' (१११०१) ती० → ति० । अनेन भिस्० → सुप्० तिसु ।
तद् । तृतीया भिस् । अनेन भिस्० → सुप्० । 'अन्त्यव्यञ्जनस्य' (१।११) द्लुक् । 'भिस्-भ्यस्-सुपि' (३।१५) त० → ते. तेसु।
अलङ्कृता । 'इत्कृपादौ' (१।१२८) कृ० → कि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् अलंकिआ ।
पृथिवी । 'पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत्' (१८८) थि० → थ० । 'उदृत्वादौ' (१।१३१) पृ० → पु० । 'ख-घ-थ-ध-भाम्' (१।१८७) थ० → ह० । 'क-ग-च-ज०' (१२१७७) व्लुक् । प्रथमा सि। 'अन्त्यव्य०' (१।११) स्लुक् पुहई । तैस्त्रिभिरलङ्कृता पृथिवीत्यर्थः ॥१३५॥
पञ्चम्यास्तृतीया च ॥ ८।३।१३६ ॥ पञ्चम्याः स्थाने क्वचित् तृतीया-सप्तम्यौ भवतः ॥ चोरेण बीहइ । चोराद् बिभेतीत्यर्थः ॥ अन्तेउरे रमिउमागओ राया । अन्तःपुराद् रन्त्वा आगतो राजा इत्यर्थः ॥ [पञ्चम्यास्तृतीया च] पञ्चमी षष्ठी ङस् । तृतीया प्रथमा सि । च प्रथमा सि ।
[चोरेण बीहड़ ] चौर । पञ्चमी ङसि । अनेन ङसि० → टा० । 'औत ओत्' (१।१५९) चौ० → चो० । 'टाआमोणः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) र० → रे चोरेण ।
"जिभीक् भये' (११३२) भी । वर्तः तिव् । 'भियो भा-बीहौ' (४।५३) भी० → बीह० इति । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० बीहइ ।
१. जंजि खमेइ समत्थो धणवंतो जं न गव्वमुव्वहइ ।
जं च सविज्जो नमिरो तिसु तेसु अलंकिया पुहवी ॥ [व० ल० - नीइवज्जा - ८७] यत् खलु क्षमते समर्थो धनवान् यन्न गर्वमुद्वहति । यच्च सविद्यो नम्रस्त्रिभिस्तैरलङ्कृता पृथ्वी ॥