Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 400
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३८७ [महुम्मि ] मधु । सप्तमी ङि । 'डे-म्मि डे:' (३।११) ङि० → म्मि० । 'ख-घ-थ०' (१।१८७) धु० → हु० महुम्मि ॥१२८॥ एत् ॥ ८।३।१२९ ॥ आकारान्तादीनामर्थात् टा-शस्-भिस्-भ्यस्-सुप्सु परतोऽदन्तवद् एत्त्वं न भवति ॥ हाहाण कयं । मालाओ पेच्छ । मालाहि कयं । मालाहिन्तो मालासुन्तो आगओ । मालासु ठिअं । एवं - अग्गिणो । वाउणो इत्यादि । [एत् ] एत् प्रथमा सि । [हाहाण कयं] हाहा । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण हाहाण । कयं पूर्ववत् [२।११४] । [मालाओ पेच्छ] माला । द्वितीया शस् । 'स्त्रियामुदोतौ वा' (३।२७) शस्० → ओत्० मालाओ। पेच्छ पूर्ववत् [३।२८] । [मालाहि कयं] माला । तृतीया भिस् । 'भिसो हि-हि-हिं' (३७) भिस्० → हि० मालाहि । कयं पूर्ववत् [२।११४] । [मालाहिन्तो मालासुन्तो आगओ] माला (२) । पञ्चमी भ्यस् । 'भ्यसस्तो-दो-दु-हि-हिन्तो-सुन्तो' (३९) भ्यस् → हिन्तो - सुन्तो० मालाहिन्तो मालासुन्तो । आगओ पूर्ववत् [३।९७] । [मालासु ठिअं] माला । सप्तमी सुप् । मालासु । ठिअं पूर्ववत् [३।११५] । [अग्गिणो] अग्नि । द्वितीया शस् । 'जस्-शसोर्णो वा' (३।२२) शस्० → णो० । 'अधो म-न-याम्' (२७८) नलुक् । 'अनादौ०' (२१८९) गस्य द्वित्वं - गि० → ग्गि० अग्गियो । ' [वाउणो] वायु । द्वितीया शस् । 'जस्-शसोर्णो वा' (३।२२) शस्० → णो० । 'क-ग-च-ज०' (१११७७) यलुक् वाउणो ॥१२९॥ द्विवचनस्य बहुवचनम् ॥ ८।३।१३० ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति ॥ दोण्णि दुण्णि कुणन्ति । दुवे कुणन्ति । दोहिं दोहिन्तो दोसुन्तो दोसु हत्था पाया थणया नयणा ।। [द्विवचनस्य बहुवचनम् द्विवचन षष्ठी ङस् । बहुवचन प्रथमा सि । [दोण्णि दुण्णि कुणन्ति ] द्वि (२) । प्रथमा जस् । 'दुवे दोण्णि बेण्णि च जस्-शसा' (३।१२०) उभयत्र जसा सह द्विस्थाने दोण्णि । द्वितीये 'हुस्वः संयोगे' (१२८४) दुण्णि । 'डुकंग् करणे' (८८८) कृ । वर्त० अन्ति । 'कृगेः कुणः' (४।६५) कृ० → कुण० । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३।१४२) अन्ति० → ति० कुणन्ति । [दुवे कुणन्ति ] द्वि । प्रथमा जस् । 'दुवे दोण्णि बेण्णि च जस्-शसा' (३।१२०) जसा सह द्विस्थाने दुवे दुवे । कुणन्ति पूर्ववत् । ___ [दोहिं] द्वि । तृतीया भिस् । 'भिसो हि-हि-हिं' (३७) भिस्० → हिं० । 'द्वेर्दो-बे' (३।११९) द्वि० → दो० दोहिं।

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442