________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३८७
[महुम्मि ] मधु । सप्तमी ङि । 'डे-म्मि डे:' (३।११) ङि० → म्मि० । 'ख-घ-थ०' (१।१८७) धु० → हु० महुम्मि ॥१२८॥
एत् ॥ ८।३।१२९ ॥ आकारान्तादीनामर्थात् टा-शस्-भिस्-भ्यस्-सुप्सु परतोऽदन्तवद् एत्त्वं न भवति ॥
हाहाण कयं । मालाओ पेच्छ । मालाहि कयं । मालाहिन्तो मालासुन्तो आगओ । मालासु ठिअं । एवं - अग्गिणो । वाउणो इत्यादि ।
[एत् ] एत् प्रथमा सि । [हाहाण कयं] हाहा । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण हाहाण । कयं पूर्ववत् [२।११४] ।
[मालाओ पेच्छ] माला । द्वितीया शस् । 'स्त्रियामुदोतौ वा' (३।२७) शस्० → ओत्० मालाओ। पेच्छ पूर्ववत् [३।२८] ।
[मालाहि कयं] माला । तृतीया भिस् । 'भिसो हि-हि-हिं' (३७) भिस्० → हि० मालाहि । कयं पूर्ववत् [२।११४] ।
[मालाहिन्तो मालासुन्तो आगओ] माला (२) । पञ्चमी भ्यस् । 'भ्यसस्तो-दो-दु-हि-हिन्तो-सुन्तो' (३९) भ्यस् → हिन्तो - सुन्तो० मालाहिन्तो मालासुन्तो । आगओ पूर्ववत् [३।९७] ।
[मालासु ठिअं] माला । सप्तमी सुप् । मालासु । ठिअं पूर्ववत् [३।११५] ।
[अग्गिणो] अग्नि । द्वितीया शस् । 'जस्-शसोर्णो वा' (३।२२) शस्० → णो० । 'अधो म-न-याम्' (२७८) नलुक् । 'अनादौ०' (२१८९) गस्य द्वित्वं - गि० → ग्गि० अग्गियो । '
[वाउणो] वायु । द्वितीया शस् । 'जस्-शसोर्णो वा' (३।२२) शस्० → णो० । 'क-ग-च-ज०' (१११७७) यलुक् वाउणो ॥१२९॥
द्विवचनस्य बहुवचनम् ॥ ८।३।१३० ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति ॥ दोण्णि दुण्णि कुणन्ति । दुवे कुणन्ति । दोहिं दोहिन्तो दोसुन्तो दोसु हत्था पाया थणया नयणा ।। [द्विवचनस्य बहुवचनम् द्विवचन षष्ठी ङस् । बहुवचन प्रथमा सि ।
[दोण्णि दुण्णि कुणन्ति ] द्वि (२) । प्रथमा जस् । 'दुवे दोण्णि बेण्णि च जस्-शसा' (३।१२०) उभयत्र जसा सह द्विस्थाने दोण्णि । द्वितीये 'हुस्वः संयोगे' (१२८४) दुण्णि ।
'डुकंग् करणे' (८८८) कृ । वर्त० अन्ति । 'कृगेः कुणः' (४।६५) कृ० → कुण० । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३।१४२) अन्ति० → ति० कुणन्ति ।
[दुवे कुणन्ति ] द्वि । प्रथमा जस् । 'दुवे दोण्णि बेण्णि च जस्-शसा' (३।१२०) जसा सह द्विस्थाने दुवे दुवे । कुणन्ति पूर्ववत् । ___ [दोहिं] द्वि । तृतीया भिस् । 'भिसो हि-हि-हिं' (३७) भिस्० → हिं० । 'द्वेर्दो-बे' (३।११९) द्वि० → दो० दोहिं।