________________
३८८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[दोहिन्तो] द्वि । पञ्चमी भ्यस् । 'भ्यसस्त्तो-दो-दु०' (३।९) भ्यस्० → हिन्तो० । 'द्वेर्दो-बे' (३।११९) द्वि० , दो० दोहिन्तो। ___ [दोसुन्तो ] द्वि । पञ्चमी भ्यस् । 'भ्यसस्त्तो-दो-दु०' (३।९) भ्यस्० → सुन्तो० । 'दुर्दो-बे' (३।११९) द्वि० → दो० दोसुन्तो। . [दोस ] द्वि । सप्तमी सुप् । 'द्वेर्दो-बे' (३।११९) द्वि० → दो० दोस् ।
[हत्था] हस्त । प्रथमा औ । अनेन औ० → जस्० । 'स्तस्य थोऽसमस्त-स्तम्बे' (२०४५) स्तस्य थः । 'अनादौ०' (२२८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । 'जस्-शस्-ङसि-त्तो-दो०' (३।१२) दीर्घः । 'जस्शसोलुंक्' (३।४) जस्लुक् हत्था ।
[पाया] पाद । प्रथमा जस् । 'जस-शस्-ङसि-तो.' (३।१२) दीर्घः । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'अवर्णो०' (१।१८०) आ० → या० । 'जस्-शसोलुंक्' (३।४) जस्लुक् पाया ।
[थणया] स्तनक । प्रथमा जस् । “स्तस्य थोऽसमस्त०' (२०४५) स्त० → थ० । 'नो णः' (१।२२८) न० → ण० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'जस्-शसोलुंक्' (३।४) जस्लुक् थणया।
[नयणा] नयन । प्रथमा जस् । 'नो णः' (११२२८) न० → ण । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'जस्शसोलुंक्' (३।४) जस्लुक् नयणा ॥१३०॥
चतुर्थ्याः षष्ठी ॥ ८॥३॥१३१ ॥ चतुर्थ्याः स्थाने षष्ठी भवति ॥ मुणिस्स मुणीण देइ ॥ नमो देवस्स देवाण ॥ [चतुर्थ्याः षष्ठी ] चतुर्थी षष्ठी ङस् । षष्ठी प्रथमा सि ।
[मुणिस्स देइ] मुनि । चतुर्थी । 'नो णः' (१२२८) नि० →णि० । अनेन षष्ठी । 'ङसः स्सः' (३।१०) ङस्० → स्स० मुणिस्स देह ।
[मुणीण देइ] मुनि । षष्ठी आम् । 'टा-आमोर्णः' (३६) आम्० → ण । 'जस्-शम्-ङसि-त्तो०' (३।१२) दीर्घः - नि० → नी० । 'नो णः' (१।२२८) नी० → णी० मुणीण देइ ।
[नमो देवस्स] नमस् । प्रथम सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् । 'अतः से?ः' (३।२) सि० → डो० → ओ० । 'सो रुः' (२१७२) स० → रु० → र० । 'र: पदान्ते.' (१।३।५३) विसर्गः । 'अतो डो०' (११३७) विसर्गस्य डो० → ओ० नमो । देव । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० देवस्स ।
[नमो देवाण ] नमो पूर्ववत् । देव । षष्ठी आम् । 'टा-आमोर्णः' (३६) आम्० → ण । 'जस्-शस्-ङसि-तो.' (३।१२) दीर्घः देवाण ॥१३१॥
तादर्थ्यडेर्वा ॥ ८॥३॥१३२ ॥ तादर्थ्यविहितस्य डेश्चतुर्थ्येकवचनस्य स्थाने षष्ठी वा भवति ॥ देवस्स देवाय । देवार्थमित्यर्थः ॥ इरिति किम ? देवाण ॥