Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 383
________________ ३७० व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [वाऽदसो दस्य होऽनोदाम्] वा प्रथमा सि । अदस् षष्ठी ङस् । द षष्ठी ङस् । ह प्रथमा सि । ओच्च आ-म् च । = ओदाम्, न ओदाम् = अनोदाम् । प्रथमा सि । [अह पुरिसो] अदस्। प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् । अनेन वा दस्य हः । 'अन्त्यव्य०' (१।११) स्लुक् अह। पुरुष । प्रथमा सि । 'पुरुषे रोः' (१२१११) रु० → रि० । 'श-षोः सः' (२६०) ष० → स० । 'अतः से?:' (३२) सि० → डो० → ओ० पुरिसो । [अह महिला] अह पूर्ववत् । महिला । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् महिला । [अह वणं] अह पूर्ववत् । वन प्रथमा सि । 'नो णः' (१।२२८) न० →ण । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१२२३) अनुस्वारः वणं । [अह मोहो परगुणलहुअयाइ ] अदस् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् । अनेन वा दस्य हः । 'अन्त्यव्य०' (१।११) स्लुक् अह । मोह । प्रथमा सि । 'अतः सेोः' (३।२) सि० → डो० → ओ० मोहो।। परगुणलघुकता । तृतीया टा । 'ख-घ-थ०' (१।१८७) घु० → हु० । 'क-ग-च-ज०' (१।१७७) क-तयोर्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । 'टा-ङस्-डेरदा०' (३।२९) टा० → इ० परगुणलहुअयाइ । 'अह मोहो परगुणलहुअयाइ जं किर गुणा पयट्टन्ति । अप्पाण-गोरवं चिअ गुणाण गुरुअत्तणनिमित्तं ॥१॥ अस्या व्याख्या - यत्किल परगुणलघुकतया आत्मनां गुणाः प्रवर्तन्ते । असौ मोहो गौरवमेव गुणानां गुरुकत्वनिमित्तमित्यर्थः ।। [अह णे हिअएण हसइ मारुअतणओ] अह पूर्ववत् । अस्मद् । द्वितीया शस् । 'अम्हे अम्हो अम्ह णे शसा' (३।१०८) अस्मदः शसा सहितस्य णे इति णे । हृदय । तृतीया टा । 'इत्कृपादौ' (१।१२८) हृ० → हि० । 'क-ग-च-ज०' (१११७७) द-ययोर्लुक् । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्त्वं- अ० → ए० हिअएण । 'हसे हसने' (५४५) हस् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'त्यादीनामाद्य०' (३.१३९) ति० → इ० हसइ । मारुततनय । प्रथमा सि । 'क-ग-च-ज०' (११७७) तुलुक । 'नो णः' (११२२८) न० →ण । 'क-ग-च-ज०' (१।१७७) यलुक् । 'अत: से?:' (३।२) सि० → डो० → ओ० मारुअतणओ। संखोहिअमयरहरो संचत्तो चत्तदिगुरक्खैसलोओ । वेलायडमुज्झन्तो अह णे हिअएण हसइ मारुअतणओ ॥१॥ १. [ग० व० - ८९२ । अनु० अङ्कः - ६६] अथ मोहो परगुणलघुकतया यत् किल गुणाः प्रवर्तन्ते । आत्मगौरवमेव गुणानां गुरुकत्वनिमित्तम् ।। २. [से० ब० - ३।१६ । अनु० अङ्क० - ६६] संक्षोभितमकरगृहः सम्भ्रान्तोवृत्तदृष्टराक्षसलोकः । वेलातटमुह्यतोऽथाऽस्मान् हृदयेन हसति मारुततनयः ॥ ३. पाठां० - से० ब० - अनु० - संभन्तुव्वत्तदिट्ठ० । ४. अनु० - रक्खसो। ५. अनु०- धरः । ६. अनु० - राक्षसो । ७. अनु०- मुज्झन् असावस्मान् ।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442